SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बालमनोरमासहिता । प्रकरणम् १८ ] क्रीतो द्वयञ्जलिः। (८०५) ब्रह्मणो जानपदाख्यायाम् ५|४|१०४ ब्रह्मान्तात्तत्पुरुषाट्टच् स्यात्समासेन जानपदत्वमाख्यायते चेत् । सुराष्ट्रे ब्रह्मा सुराष्ट्रब्रह्मः । (८०६) कुमहद्भयामन्यतरस्याम् ५|४|१०५॥ आभ्यां ब्रह्मणो वा टच्स्यातत्पुरुषे । कुत्सितो ब्रह्मा कुब्रह्म: - कुब्रह्मा । ( ८०७) आत्महतः समानाधिकरणजातीययोः ६ |३|४६ ॥ महतः आकारोऽन्तादेशः स्यात्समानाधिकरणे उत्तरपदे जातीये च परे । महाब्रह्मः - महाब्रह्मा । महादेवः । महाजातीयः । समानाधिकरणे किम् । महतः सेवा महत्सेवा । लाक्षणिकं विहाय प्रतिपदोक्तः 'सन्महत्' ५५३ तधान्यादौ वर्तते, केवलस्याज्जलेः मूल्यत्वासम्भवात् । परिमाणत्वात् ठञ् । 'अध्यर्ध इति तस्य लुक् । I ब्रह्मणो जानपदाख्यायाम् । जनपदे भवो जानपदः भावप्रधानो निर्देशः । तस्य केनाख्येत्याकाङ्क्षायाम् प्रकृतत्वात् समासेनेति लभ्यते । तदाह - समासेन जानपदत्वमाख्यायते चेदिति । जानपदत्वमित्यनन्तरं ब्रह्मण इति शेषः । सुराष्ट ब्रह्मेति । ब्रह्मश दोsa पुंलिङ्गः । ब्रह्मा विप्रः । 'वेदस्तत्त्वं तपो ब्रह्म ब्रह्मा विप्रः प्रजापतिः' इत्यमरः । सप्तमीति योगविभागात् समासः । टच्, टिलोपः, 'परवल्लिङ्गम्' इति पुंस्त्व. म् । जानपदेति किम् । देवब्रह्मा नारदः । कुमहद्भयामन्यतरस्याम् । कु ब्रह्मेति । रजभावे रूपम् | 'कुगतिप्रादयः' इति समासः । कुब्रह्म इति । टचि रूपं, टिलोपः । अथ महत्पूर्वस्य टज्विकल्पमुदाहरिष्यन् विशेषमाह - आन्महतः । 'अलुगुत्तरपदे' इत्युत्तरपदाधिकारस्थमिदं सूत्रम् | उत्तरपदे इत्यनुवृत्तं समानाधिकरणपदे अन्वेति न तु जातीय इति, तस्य प्रत्ययत्वात् । तदाह - महत श्रात्वमित्यादिना । महाब्रह्म इति । महांश्चासौ ब्रह्मा चेति विग्रहः । 'सन्महत्' इत्यादिना समासः । आत्त्वम् । सवर्णदीर्घः । 'कुमहयाम्' इति टच् । टिलोपः, 'परवल्लिङ्गम्' इति पुंस्त्वम् । महाब्रह्मेति । टजभावे आत्वे रूपम् । अथ प्रसङ्गादुक्तमात्त्वविधि प्रपञ्चयिष्यन् समानाधिकरणे पुनरुदाहरति - महादेव इति । जातीये उदाहरति- महाजातीय इति । महत्सदृश इत्यर्थः । प्रकारवचने जातीयर · आत्त्वम् सवर्णदीर्घः । समानाधिकरणे किमिति । 'आन्महतो जातीये चेत्येवास्तु । चकारादुत्तरपदसमुच्चये सति महत आत्त्वम् स्यात् उत्तरपदे जातीये च परत इत्यर्थलाभादेव महादेव इत्यादिसिद्धेः किं समानाधिकरणेनेति प्रश्नः । महतः सेवा महत्सेवेति । अत्र षष्ठीसमासे आत्त्वनिवृत्त्यर्थं समानाधिकरणग्रहणमिति भावः । 1 1 " ननु षष्ठीसमासो लाक्षणिकः, समस्यमानपदं विशिष्य अनुच्चार्य सामान्यशा-: For Private and Personal Use Only ·
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy