SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५३० सिद्धान्तकौमुदी [तत्पुरुषसमास जातीयदेशीयेषु ६।३।४२॥ कर्मधारये जातीयदेशीययोश्च परतो भाषितपुंस्कात्पर ऊङभावो यस्मिस्तथाभूतं पूर्व पुंवत् । पूरणीप्रियादिष्वप्राप्तः पुंवद्भावोऽनेन विधीयते । महानवमी । कृष्णचतुर्दशी । महाप्रिया । तथा कोपधादेः प्रतिषिद्धः पुंवद्भावः कर्मधारयादौ प्रतिप्रसूयते । पाचकस्त्री, दत्तभार्या, पञ्चमभार्या, स्रोधनभार्या, सुकेशभार्या, ब्राह्मणभार्या । एवं पाचकजातीया पाचकदेशीया इत्यादि । इभपोटा । 'पोटा करणसप्तमी। जातीयदेशीयविषये परसप्तमी। तदाह-कर्मधारये इति । तथाभूत. मित्यनन्तरं स्त्रीवाचकमिति शेषः। भाषितपुंस्कादनडित्येतत् 'स्त्रियाः पुंवत् इति सूत्रे स्फुटीकरिष्यते। ननु कर्मधारये 'स्त्रियाः पुंवत्' इत्यनेन सिद्धं पुंवत्त्वम् , जाती. यदेशीययोस्तु 'तसिलादिष्वाकृत्वसुचः' इत्यनेन सिद्धमित्यत आह-पूरणीप्रियादि. वप्राप्त इति । अपूरणीप्रियादिष्विति पर्युदासादिति भावः । महानवमीति । महती चासौ नवमी चेति विग्रहः । 'सन्महत्' इत्यादिना समासः । नवानां पूरणी नवमी। 'तस्य पूरणे डट् 'नान्तादसङ्ख्यादेमंद । टित्त्वात् ङीप् । अत्र नवमीशब्दस्य पूरण. प्रत्ययान्तत्वात्तस्मिन् परे 'स्त्रियाः पुंवत्' इति पुंवत्त्वमप्राप्तमनेन विधीयते । कृते पंवत्त्वे 'आन्महतः' इत्यात्त्वमिति भावः । कृष्णचतुर्दशीति । चतुर्दशानां पूरणी चतुदशी । डट् 'नस्तद्धिते' इति टिलोपः। टित्त्वान्डीप् । कृष्णा चासौ चतुर्दशी चेति विग्रहः । महाप्रियेति । महती चासौ प्रिया चेति कर्मधारयः। अत्रापि प्रियादिपर्युदा. सादप्राप्तमनेन विधीयत इति भावः । 'पुंवत्कर्मधारयः इत्यस्य प्रयोजनान्तरमाह-तथा कोपधादेरिति । 'न कोपधायाः 'सज्ञापूरण्योश्च' 'वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे' 'स्वाङ्गाच्चेतः' 'जातेश्व' इति पञ्चसूत्र्या प्रतिषिद्ध इत्यर्थः । कर्मधारयादाविति । कर्मधारये जातीयदेशीययोश्च परयोरित्यर्थः । पाचकस्त्रीति । पाचिका चासौ स्त्री चेति कर्मधारयः । अत्र 'न कोपधायाः' इति पुंवत्त्वस्य प्रतिषेधः प्राप्तः । दत्तभार्या, पन्चमभार्येति । दत्ता चासौ भार्या चेति, पञ्चमी चासौ भार्या चेति च कर्मधारयः। अत्र 'सज्ञापूरण्योश्च' इति प्रतिषेधः प्राप्तः । स्रोप्नभार्येति । स्त्रौनी चासो भार्या चेति कर्मधारयः। अत्र 'वृद्धिनिमि. तस्य च' इति प्रतिषेधः प्राप्तः । सुकेशभार्येति । सुकेशी चासौ भार्या चेति कर्मधा. रयः। अत्र 'स्वाङ्गाच्च' इति निषेधः प्राप्तः। ब्राह्मणभार्येति। ब्राह्मणी चासौ भार्या चेति कर्मधारयः। अत्र 'जातेश्च' इति निषेधः प्राप्तः । अथ जातीयदेशीययोः प्रति. प्रसवमुदाहरति-एवं पाचक.जातीया पाचकदेशीयेति। 'प्रकारवचने' इति जातीयर, 'ईषदसमाप्तौ' इति देशीयर । उभयत्रापि तसिलादिषु' इति पुंवत्त्वस्य 'न कोपधा. या इति निषेधः प्राप्तः । इत्यादीति। दत्तजातीया, दत्तदेशीया, पञ्चमजातीया, पञ्च For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy