________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १८ ]
बालमनोरमासहिता ।
निषेधं बाधित्वा पक्षे षष्ठीसमासः । भिक्षाद्वितीयम् । ( ७२५) प्राप्तापन्ने च द्वि. तीयया २२४॥ पक्षे 'द्वितीया श्रित' ( सू ६८६ ) इति समासः । प्राप्तो जीविकां प्राप्तजीविकः - जीविका प्राप्तः । आपन्नजीविकः - जीविकापनः । इह सूत्रे, 'द्वितीयया अ' इति छित्त्वा अकारोऽपि विधीयते । तेन जोविकां प्राप्ता स्त्री प्राप्त • जीविका । अपन्नजीविका । ( ७१६) कालाः परिमाणिना २|२| ५ || परि च्छेद्यवाचिना सुबन्तेन सह कालाः समस्यन्ते । मासो जातस्य मासजातः । द्व्यह
५१७
भावः । ननु 'पूरणगुण' इति निषेधात् कथमिह षष्ठीसमास इत्यत्र आह— पूरणगु. येति निषेधं बाधित्वेति । अन्यथा अन्यतरस्याङ्ग्रहणवैयर्थ्यादिति भावः । इत्येकदेशि - समासनिरूपणम् ।
प्राप्तापन्नै च द्वितीयया । प्राप्त, आपन्न एतौ शब्दौ द्वितीयान्तेन समस्येते इत्यर्थः । चकारो द्वितीयासमाससमुच्चयार्थः । तदाह-पक्ष इति । वस्तुतस्तु 'द्वितीया श्रित' इति सूत्रे " प्राप्तापन्नशब्दाभ्यां द्वितीयायाः समासविधानमपि निरवकाशमेव इति तत्समुच्चयस्य सिद्धत्वात् चकारो न तत्समुच्चयार्थः” इति भाष्ये स्थितम् । तत्र प्रकृतसूत्रेण समासे प्राप्तापन्नयोः पूर्वनिपातः । 'द्वितीया श्रित' इति समासे तु द्वितीयान्तस्य पूर्वनिपातः । तदाह - प्राप्तजीविक इत्यादि । अथ जीविकां प्राप्ता स्त्री जीविकामापन्ना स्त्रीति विग्रहे प्रकृतसूत्रेण समासे सति पूर्वपरयोरकारमन्तादेशं साधयितुमाह - इह सूत्र इति । अकारोऽपीति । प्राप्तापन्ने द्वितीयया समस्येते तयोरकारोऽन्तादेशश्चेत्यर्थं लाभादिति भावः । तेनेति । प्राप्तापन्नयोराकारस्यान्तस्य स्थाने अकारविधानेनेत्यर्थः ।
I
कालाः परिमाणिना । परिमाणिपदं व्याचष्टे - परिच्छेद्यवाचिनेति । काला इति बहुवचनात् कालविशेषवाचका इत्यर्थः । मासो जातस्य मासजात इति । अत्र विग्रहे मासः प्रधानम् । समासे तु जातः प्रधानम् । मासजातो दृश्यतामित्यादौ जातस्यैव दर्शनकर्मत्वादिप्रतीतेः । विशेषणविशेष्यभावस्तु एकार्थीभावसम्बन्धसाध्यः । एतदेवाभिप्रेत्य मूले क्वचित् पुस्तके मासो जातस्य यस्य स इति पठितम् । तत्र विग्रहे जातस्येति परिच्छेद्यपरिच्छेदकभावे षष्ठी । जातपरिच्छेदको मास इति विग्रहवाक्ये बोधः मासपरिच्छेद्यो जात इति समासाद्बोधः । तत्र मासस्तावत् जननं साक्षात् परिच्छि नति । जननाश्रयं तु देवदत्तं जननद्वारा परिच्छिनत्ति । तथाच मासपरिच्छेद्यजननाश्रयो देवदत्त इति समासाद्बोधः फलति । षष्ठीसमासापवादोऽयम् । षष्ठीसमासे तु जातमास इति स्यात् । नच मासो जातस्य यस्य सः मासजात इति बहुव्रीहिणैवैतत्सिद्धमिति वाच्यम् । समानाधिकरणानामेव बहुव्रीहिविधानात् । 'निष्ठा' इति
I
I
For Private and Personal Use Only