________________
Shri Mahavir Jain Aradhana Kendra
प्रकरणम् १८
बालमनोरमासहिता ।
इत्यादिषु 'पोटायुवति ' ( सू ७४४ ) इत्यादीनां विभक्त्यन्तरे चरितार्थाना परत्वाद्वाधकः षष्ठीसमासः प्राप्तः । सोऽप्यनेन वार्यते । (७०६) तेन च पूजायाम् २२|१२|| ' मतिबुद्धि' ( सू ३०८९ ) इति सूत्रेण विहितो यः कस्तदन्तेन षष्ठी न समस्यते । राज्ञां मतो बुद्धः पूजितो वा । राजपूजितः इत्यादी तु भूते कान्तेन सह तृतीयान्तस्य समासः । ( ७०७) अधिकरणवाचिना च
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
]
५११
सस्य' इत्यन्तोदात्तत्वस्याविशिष्टत्वादिति चेत्, मैवम् - कर्मधारये हि सति गमनस्य श्रेयस इत्यादौ 'ज्यावमकन्पापवत्सु भावे' इति पूर्वपदप्रकृतिस्वरः । षष्ठीसमासे त्वन्तोदात्तत्वं स्यात् । तम्माभूदित्येतदर्थं षष्ठीसमासनिषेध आवश्यक इति समासनिषेधस्य चरितार्थत्वान्न तस्य विशेषणसमासनिवृत्तिसामर्थ्यमिति बहुलग्रहणमाश्रितम् । न चैवमपि तक्षकसर्प इति प्रथमान्तविग्रहे कर्मधारये सति तक्षकसर्पस्येति दुर्निवारमिति वाच्यम्, निषेधसामर्थ्यादेव प्रथमान्तकर्मधारयमाश्रित्य तक्षकसर्पस्येत्येवं जातीयकप्रयोगाभाबोन्नयनात् । अथ समानाधिकरणेन निषेधे उदाहरणान्तरमाह – गोनोरिति । गोर्धेनोरित्यादिषु षष्ठीसमासः प्राप्तः सोऽप्यनेन वार्यत इत्यन्वयः । आदिना यूनः खलतेरित्यादिसङ्ग्रहः । ननु षष्ठीसमास एवात्र न प्रसज्यते 'पोटा युवति', 'युवा खलति' इत्यादिविशेषविहितकर्मधारयेणात्र परस्यापि षष्ठीसमासस्य बाधितत्वादित्यत आह- पोटायुवतीत्यादीनां विभक्त्यन्तरे चरितार्थानां परत्वादुबाधक इति । पोटायुवति, युवा खलति इत्यादिविधयः गौधेनुः, युवा खलतिरित्यादिषु प्रथमाविभक्त्यन्तेषु सावकाशाः । षष्ठीसमासस्तु राज्ञः पुरुषः इत्यादावसमानाधिकरणे सावकाशः । गोधेनोः, यूनः खलतेरित्यादिषु उभयं प्राप्तम् । तत्र पोटायुवति, युवा खलति, इत्यादिविधीन् बाधित्वा षष्ठीसमासः प्राप्तः । सोऽप्यनेन समानाधिकरणेनेति निषेधेन वार्यंत इत्यर्थः । नच निषेधसामर्थ्यादेव पोटायुवतीत्यादिसमासोऽपि बाध्यतामिति वाच्यम्, षष्ठीसमासे गोधेनोरित्यादौ अन्यतरस्य पूर्वनिपातः । 'पोटायुवति' इत्यादिसमासे तु गोयुवादिशब्दस्यैवेति फलभेदस्य रूपटत्वात् । समानाधिकरणेन निषेधश्चायं काचित्क एव, अन्यस्य पदस्यार्थ इत्यर्थं अन्यपदार्थ इति निर्देशात् । तेन नीलोत्पलस्य गन्ध इत्यादिः सिद्धः ।
क्तेन च पूजायाम् । अत्र पूजाग्रहणं 'मतिबुद्धिपूजार्थेभ्यश्च' इति सूत्रोपलक्षणम् । तदाह - मतिबुद्धीति सूत्रेणेति । राज्ञां मतो बुद्धः पूजितो वेति । राज्ञा इष्यमाणः ज्ञायमानः पूज्यमान इति क्रमेणार्थ: । ' मतिबुद्धिपूजार्थेभ्यश्च' इति वर्तमाने क्तः । 'कस्य च वर्तमाने' इति षष्ठी । नन्वेवं सति राजपूजितः राजमतः राजबुद्ध इति कथं समास इत्यत आह- राजपूजित इत्यादाविति । श्रधिकरणवाचिना च । शेषपूरणेन सूत्रं व्याचष्टे
For Private and Personal Use Only