SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् १६] बालमनोरमासहिता । ( सू २०७९ ) इत्यादिना खः । (६४६) विभाषा कृत्रि १२४।६८ ॥ अधिः करोतौ प्राक्संज्ञो वा स्यादीश्वरेऽर्थे । यदत्र मामधिकरिष्यति । विनियोक्ष्यत इत्यर्थः । इह विनियोक्तुरीश्वरत्वं गम्यते । अगतित्वात् 'तिथि चोदात्तवति' ( सू ३९७८ ) इति निघातो न । ॥ इति सप्तमी विभक्तिः ॥ ॥ इति कारकप्रकरणम् ॥ 1 रामस्वामिकेत्यर्थः । विभक्त्यर्थे अव्ययीभावे त्वधिरामं भूः । रामाधिकरणिका भूरित्यर्थः । खप्रत्ययस्तु न । अध्युत्तरपदत्वाभावात् । विभाषा कृमि । 'अधिरीश्वरे' इत्यनुवर्तते । कर्मप्रवचनीया इत्यधिकृतम् । तदाह- अधिः करोताविति । कृञ्धातौ परे अधिः कर्मप्रवचनीयो वा स्यादीश्वरत्वे इति यावत् । यदत्र मामधिकरिष्यतीति । अस्मिविषये मामधिकरिष्यतीति यत्तद्युक्तमित्यर्थः । अत्र कर्मप्रवचनीययोगे मामिति द्वितीया । अधिकरिष्यतीत्येतत् व्याचष्टे – विनियोक्ष्यत इत्यर्थ इति । तर्हि कर्मत्वादेव द्वितीयासिद्धेः किं कर्मप्रवचनीयत्वेनेत्यत आह- प्रगतित्वादिति । तिङि चेति । उदाविति तिङि परे गतिर्निहन्यत इति तदर्थः । अत्र करिष्यतीति तिङन्तमुदात्तवत्, 'तिङ्ङतिङ :' इति निघातस्य 'निपातैर्यत्' इत्यादिना निषेधात् । ततश्च अधेरत्र गति - त्वान्निघात इह प्राप्तः । कर्मप्रवचनीयत्वे तु स न भवति, तेन गतित्वस्य बाधात् । अतः अधेर्निवाताभावार्थमिदं सूत्रमिति सिद्धम् । इति श्रीमद्वासुदेवदीक्षित विदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमाख्यायां विभक्त्यर्थनिरूपणं समाप्तम् । ४७७ For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy