SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४६४ सिद्धान्तकौमुदी . [ कारक(६२४) उभयप्राप्तौ कर्मणि २॥३॥६६॥ उभयोः प्राप्तियस्मिन्कृति तत्र कर्मण्येव षष्ठी स्यात् । आश्चर्यो गवा दोहोऽगोपेन । 'श्रीप्रत्यययोरकाकारयो यं नि षष्ट्या उपसङ्ख्यानम्। इति तस्य च वर्तमाने' इति सूत्रस्थवार्तिकेन निष्ठायोगे ष. ष्ठीनिषेधस्यात्राप्रसक्तेः । तथाच षष्ठ्यभावे उक्तरीत्या अनभिहितत्वात् द्वितीया सु. लमैव । नच कृतेऽपि कृद्ग्रहणे षष्ठी दुरा, कृतेति तप्रत्ययात्मककृयोगस्य सत्त्वादि. ति वाच्यम् , कृग्रहणसामर्थ्येन भाष्योदाहरणेन च वृत्त्यन्तर्भावानापनकृयोगस्य विवक्षितत्वात् । प्रकृते च कृतेत्यस्य तद्धितवृत्त्यन्तर्भूतत्वान्न तयोगः षष्ठीनिमित्तम् । न चैवं सति ओदनस्य पाचकतमः, ओदनस्य पाचकग्रहणम् इत्यादौ षष्ठी न स्यात् , वृत्त्यनन्त तकृयोगाभावात् । तथाच ओदनं पाचकतमः, ओदन पाचकग्रहणम् इति द्वितीयैव स्यादिति वाच्यम् , इष्टापत्तेः । अत एव मतुबधिकारे 'प्रज्ञाश्रद्धार्चाभ्यो णः' इत्यत्र 'प्राज्ञो व्याकरणम्' इत्युदाहरिष्यते मूलकृता। नचैवं घटः क्रियत इत्यत्रापि कर्मणो विवक्षाभावमाश्रित्य भावलकारे सति अनन्तरं घटस्य कर्मत्वेनान्वयसम्भः वात् अनभिहितत्वात् द्वितीया दुर्वा रेति वाच्यम्, वैषम्यात्। कृतपूर्वीत्यत्र हि अलौ. किकविग्रहदशायां कटशब्दस्यासन्निधानात् कर्मणो विवक्षा न सम्भवतीति भावे तप्रत्यय इति युक्तमाश्रयितुम् । क्रियते इत्यत्र तु न सम्भवत्येवाविवक्षा, कृत्तद्धित. समासैकशेषसनाद्यन्तधातुरूपवृत्तिपञ्चकानन्तर्भूतत्वेन वृत्तिशून्यतया विग्रहाभावात् । तथाच वृत्तिविषय एवार्य व्युत्पत्तिप्रकार इति प्राचीनमतानुसारी पन्थाः । शब्देन्दुशेखरे तु ओदनं पाचकतम इत्यादौ द्वितीया असाधुरेव, षष्ठ्येव साधुरिति प्रपञ्चितम् । विस्तरभयान्नेह तल्लिख्यते । ननु भाकाव्ये "ददैदुःखस्य माग्भ्यो धायैरामोदमुसमम् । लिम्पैरिव तनोतिश्चेतयः स्यात् ज्वलो न कः॥" इति श्लोकोऽस्ति । श्रीरामस्य विरहार्तस्य वाक्यमेतत् । अत्र दुःखस्येति तनोरिति च कर्मणि षष्ठी। माइग्भ्यो दुःखं ददैर्ददनिः, पुष्पादीनाम् आमोदं परिमलं धायैःपोषकैः, तनोः तनुं शरीरं लिम्पैः लिम्पद्भिः कः चेतयः प्राणी ज्वलः ज्वलचिव न स्यादित्यर्थः। अत्रामोदस्योत्तमस्येति कर्मणि षष्ठ्या भाव्यम् । धायशब्दस्य पोषणार्थकधाञ्धातोः 'ददातिदधात्योः' इति णप्रत्ययात्मककृदन्तत्वादिति चेत् , न-उत्तममामोदं पुष्पादीनां गृहीत्वा दुःखस्य पोषकैरित्येवं गृहीत्वेत्यध्याहृत्य तधोगे द्वितीयाया उपपत्तः।। उभयप्राप्तौ कर्मणि । पूर्वसूत्रात् कृतीत्यनुवर्तते । उभयप्रासाविति बहुव्रीहिः । अन्यपदार्थः कृत् । तदाह-उभयोः प्राप्तियस्मिन् कृतीति । एकस्मिन् कृति उभयोः कर्तृकर्मणोः षष्ठीप्रसक्तौ कर्मण्येव षष्ठी स्यात् , नतु कर्तरीति यावत् । आश्चर्य For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy