SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४५२ सिद्धान्तकौमुदी [कारक - वा सेव्यो हरिः । 'अपपरिबहिः- ( स ६६६) इति समासविधानात् ज्ञाप. काद्वाहियोंगे पञ्चमी । प्रामाद्वहिः । (५६६) मपपरी वर्जने ११४॥ एतौ वर्जने कर्मप्रवचनीयौ स्तः। (५६७) प्राङमर्यादावचने ॥ भा. मर्यादायामुक्कसम्ज्ञः स्यात् । वचनप्रहणादभिविषावपि । (48) पञ्चम्यपाङ्: परिभिः २।३।१०॥ एतैः कर्मप्रवचनीयोगे पञ्चमी स्यात् । अप हरेः, परि च 'कार्तिक्याः प्रभृति' इति भाष्यव्याख्यावसरे तत आरभ्येत्यर्थ इति कैयट आह । तत्र हि तत इति पञ्चम्यास्तसिः । एतत् सर्वमभिप्रेत्योदाहरति-भवात् प्रभृति, भारभ्य वेति । भवः उत्पत्तिः, आरभ्येत्यस्यावधि परिगृह्येत्यर्थः । प्रभृतीत्यव्यमप्येतदर्थकमेव । भवमवधिं परिगृह्य हरिः सेव्य इत्यर्थः । उत्पत्तिक्षणात्मकपूर्वावधिकोत्तरकाले सर्वदा आमरणं हरिस सेव्य इति यावत् । अत्रारभ्येति क्रियापेक्षया कर्मत्ववि. वक्षायां द्वितीयैव, उपपदविभक्तेः कारकविभक्तिर्बलीयसी' इत्युक्तेः । यथा 'सूर्योदयमारभ्य आस्तमयात् जपति' इत्यादौ । शेषत्वविवक्षायां तु षष्ठी बाधित्वा भवशब्दात् पञ्चमी । प्रभृतिशब्दयोगे तु आरभ्येत्यर्थे कदापि न द्वितीया, प्रभृतिशब्दा. थस्यावधि परिगृह्येत्यल्यावध्यादिघटितत्वेन क्रियात्वाभावात् । अपपरीति । बहि. शब्दयोगे पञ्चमी सिद्धवत्कृत्य 'अपपरिबहिरञ्चवः पञ्चम्या' इति समासविधा. नात बहिशब्दयोगे पञ्चमी विज्ञायते इत्यर्थः । इदच 'अपपरि इति सूत्रे भाष्ये स्पष्टम् । 'करस्य करभो बहिः' इति त्वसाध्वेव। 'ज्ञापकसिद्धं न सर्वत्र' इति वा क. थञ्चित्समाधेयम् । " अपपरी वर्जने । कर्मप्रवचनीयौ स्त इति । कर्मप्रवचनीयाः इत्यधिकृतस्य द्विवचनेन विपरिणाम इति भावः । वर्जने किम् । परिषिञ्चति । सर्वतः सिञ्चतीत्यर्थः । मत्रो. पसर्गत्वात् 'उपसर्गात्सुनोति' इति षत्वम् । आमर्यादावचने । उक्तसंश इति । कर्मप्र. वचनीयसंज्ञक इत्यर्थः । ननु 'आड्मर्यादायाम्' इत्येव सिद्ध वचनग्रहणं व्यर्थमित्यत आह-वचनग्रहणादिति । तेन विनेति मर्यादा, तेन सहेत्यभिविधिः। मर्यादाशब्दो यत्रोच्यते तन्मर्यादावचनम् 'आइमर्यादाभिविध्योः' इति सूत्रम् । तत्र य आ दृष्टः स कर्मप्रवचनीयसंज्ञक: स्यादित्यर्थः । तथाच मर्यादाभिविध्योराङ् कर्मप्रवचनीय इति फलतीति भावः । पञ्चम्यपाङपरिभिः । एतैरिति । अप आङ् परि इत्येतैरित्यर्थः । कर्मप्रवचनीयैरिति । कर्मप्रवचनीययुक्ते इत्यतस्तदनुवृत्तेरिति भावः। अप हरेः परि हरेः संसार इति । अपहरेः संसारः परिहरेः संसार इत्यन्वयः । हरि वर्जयित्वा जनिमृतिचक्रात्मकं संसरणमित्यर्थः । ननु 'वृक्षं प्रति विद्योतते, भक्तो हरि प्रति' इत्यादौ 'लक्षणेत्यम्भूत' इति कर्मप्रवचनीयत्वात् 'कर्मप्रवचनीययुक्ते द्वितीया' इति द्वितीयां परत्वात् अपवादत्वाच्च बाधित्वा 'पञ्चम्यपाइपरिभिः' इति पञ्चमी स्यादित्यत For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy