SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् १६ ] बालमनोरमासहिता। ४४४ १॥४॥३०॥ जायमानस्य हेतुरपादानं स्यात् । ब्रह्मणः प्रजाः प्रजायन्ते । (५४४) भुवः प्रभवः शा३२॥ भवनं भूः । भूकर्तुः प्रभवस्तथा। हिमवतो गङ्गा प्रभ. वति । तत्र प्रकाशते इत्यर्थः।। _ 'स्यब्लोपे कर्मण्यधिकरणे च' ( वा १४७४-१४५५) । प्रासादात्प्रेक्षते, आसनात्प्रेक्षते । प्रासादमारुह्य, आसने उपविश्य, प्रेक्षते इत्यर्थः । श्वशुराज्जि. हेति । श्वशुरं वीक्ष्येत्यर्थः । 'गम्यमानापि क्रिया कारकविभक्तीनां निमित्तम्। (वा ५०४१ ) कस्मात्त्वम् , नद्याः । 'यतश्चाध्यकालनिमानं ततः पञ्चमी' ( वा एवेति वक्ष्यते । जायमानस्येति । जनधातोः कर्तरि लटरशानच् , श्यन् , ज्ञाजनोर्जा 'आने मुक्' उत्पत्त्याश्रयस्येत्यर्थः। प्रकृतिशब्द व्याचष्टे-हेतुरिति । ब्रह्मण इति । हिरण्यगर्भादित्यर्थः । घटादिषु कुलालादिवत् तस्य प्रजोत्पत्तौ निमित्तकारणत्वमिति भावः । वृत्तिकृन्मतमेतदयुक्तम् , संयोगविश्लेषसत्त्वेन 'ध्रुवमपाये' इत्येव सिद्धत्वात् । अतोऽत्र मूले हेतुशब्दः उपादानकारणपर एव । अत एव भाष्यकैयटयोः 'गोमया. वृश्चिका जायन्ते गोलोमाविलोमभ्यो दूर्वा जायन्ते' इत्युदाहत्य परिणामेषु प्रकृतिव्यावयवानुस्यूतिसस्वेऽपि बुद्धिकृतविश्लेषसत्त्वात् 'ध्रुवमपाये' इत्येव सिद्धमिति प्रत्याख्यानं सङ्गच्छते । एवञ्च 'ब्रह्मणः प्रजाः प्रजायन्ते' इत्यत्र ब्रह्मशब्देन मायोपहितमीश्वरचैतन्यमेव विवक्षितम् । तद्धि सर्वकार्योपादानमिति वेदान्तसिद्धान्तः । भुवः प्रभवः । पूर्वसूत्रे समासनिर्दिष्टमपि कर्तृग्रहणमेकदेशे स्वरितत्वप्रतिज्ञाबलादिहानुवर्तते । तदाह-भूकर्तुरिति । भवनं भूः सम्पदादित्वात् क्लिप । भुवः कर्ता भूकर्ता तस्ये. त्यर्थः । प्रभव इति । प्रभवति प्रथम प्रकाशतेऽस्मिन्निति प्रभवः, प्रथमप्रकाशस्थानमि. त्यर्थः । प्रभवतीत्यस्य उत्पद्यते इत्यर्थे तु असङ्गतिः, गङ्गायास्तत्रानुत्पत्तेः । तदाहप्रकाशते इत्यर्थ इति । प्रथम प्रकाशते इति यावत् । अत एव हिमवति प्रकाशते इत्यत्र न भवति । एतेन जनिकर्तुरित्यनेन 'ध्रुवमपाये' इत्यनेन च गतार्थत्वं निरस्तम् । भा. ध्ये तु अपक्रामतीत्यर्थमाश्रित्य 'ध्रुवमपाये' इत्यनेनैव सिद्धमिति स्थितम् । . ल्यब्लोपे इति । ल्यबन्तस्य लोपे अदर्शने अप्रयोगे सति गम्यमानतदर्थे प्रति कमणि अधिकरणे च पञ्चमी वाच्येत्यर्थः । जिहेतीति । लज्जते इत्यर्थः। नन्वत्र ल्यबन्तस्य प्रयोगाभावात् कथं तदर्थ प्रति कर्माद्यवगतिरित्यत आह-गम्यमानापोति । प्रकरणादिनेत्यर्थः । गम्यमानापीत्यस्य प्रयोजनान्तरमाह-कस्मात्वमिति । आगतो. सीति गम्यमानक्रियापेक्षमपादानत्वमिति भावः । नद्या इत्युत्तरम् । आगतोऽस्मीति गम्यमानक्रियापेक्षमपादानत्वमिति भावः। यतश्चेति । यत इति तृतीयार्थे तसिः। येनावधिना अध्वनः कालस्य बा निमानं परिच्छेदः इयत्ता गम्यते, ततः पञ्चमी वा. २४बा० For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy