SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् १६ ] बालमनोरमासहिता । नतु गोः, तस्याः परकीयत्वेनानीप्सितत्वात् , वारणीयतया ईप्सितत्वव्याघाताच्च । तथाच 'तथायुक्तं च इति गोः कर्मत्वात् द्वितीया । यदा तु यवाः परकीयाः, गौस्तु स्वकीया, तदा वारणमसम्भावितमेव । वस्तुतस्तु यवानां परकीयत्वेऽपि तद्विनाशादधर्मः स्यात् । यवस्वामी गामपहृत्य बध्नीयात् । गोस्वामिनं च यवस्वामी दण्ड. येत् । अतो यवानां रक्षितुमिष्टत्वात् ईप्सितत्त्वादपादानत्वमस्त्येव । गोस्तु स्वकीयत्वेऽपि बाधकनिवृत्त्यै वारयितुमिष्टतमत्वात् कर्मत्वम् । नच गोरीप्सिततमत्वेऽपि ईप्सितत्वस्यापि सत्त्वादपादानत्वं किं न स्यादिति वाच्यम् , ईप्सिततमत्वे 'वारणा नाम्' इत्यपादानत्वं बाधित्वा 'कर्तुरीप्सिततमम्' इति कर्मत्वस्यैव परत्वात् प्रा. सेः । नच 'धारणार्थानामीप्सितः' इत्यपादानत्वस्य 'कर्तुरीप्सिततमम्' इति कर्मत्वा. पवादत्वं शङ्कयम् , 'कर्तुरीप्सिततमम्' इति कर्मत्वं हि ईप्सिततममात्रविषयम् । वारणार्थानामित्यपादानत्वं तु ईप्सितविषयम् । तस्य प्रकृते ईप्सितेषु यवेषु परकीयेषु सावकाशत्वात् न कर्तुरीप्सिततमम्। इति कर्मत्वापवादत्वम् । अतः परत्वात् गोः स्वकीयायाः परकीययवापेक्षया ईप्सिततमत्वात् कर्मत्वमेव । नच अग्नेर्माणवकं वारयतीत्यत्र अग्नेरीप्सितत्वाभावात् कथमपादानत्वमिति वाच्यम् , इष्टत्वभ्रमादग्नौ विषये स्पर्शनफलकप्रवृत्त्यभिमुखं माणवक प्रवृत्तिविमुखीकरोतीति हि तदर्थः । तत्रा. ग्निस्पर्शे माणवकस्य दाहप्रसङ्गात् तद्विषयप्रवृत्तिविमुखीकरणात्मकवारणक्रियया आप्तुमिष्टतमत्वेन वारयितुरीप्सिततमत्वात् माणवकस्य कर्मत्वम् । अग्नेस्तु वार. णक्रियेप्सिततममाणवकीयस्पर्श क्रियया आप्तुमिष्टतमत्वेऽपि वारयितुरीप्सितत्वात् अपादानत्वम् । एतेन कर्तुापारजन्यफलाश्रयः कर्मेत्येवास्तु, 'कर्तुरीप्सिततम कर्म' 'तथायुक्तं चानीप्सितम्' इति किमीप्सिततमानीप्सितयोः पृथग्रहणेन । एतावतैव हरि भजति, ग्रामं गच्छन् तृणं स्पृशति, विषं भुक्त इत्यादिसर्वलक्ष्यसमहादिति निरस्तम् । कर्तृव्यापारजन्यफलाश्रयः कर्म इत्युक्तौ हि 'वारणार्थानाम्' इति सूत्रमल्यापवादः स्यात्, विशेषविहितत्वात् । तथाच माणवकस्य कर्मत्वं न स्यात् । नचानौ 'वारणार्थानाम्' इति सावकाशमिति वाच्यम् , वारयतेत्रि स्पर्शफलकप्रवृत्तिविघटनमर्थः । तच्चान्यतो नयनादिरूपम् । तादृशव्यापारप्रयोज्यफलं माणवककर्तृकस्पर्शफलकप्रवृ. त्तिविरहः । तत्र स्पर्शाशोऽग्निनिष्ठः माणवकनिछाध, संयोगरूपस्य स्पर्शस्य द्विनिष्ठत्वात् । प्रवृत्तिविरहश्च विषयतया अग्निनिष्ठः । आश्रयतया माणवकनिष्ठश्च । तथा. च कर्तृव्यापारप्रयोज्यफलाश्रयत्वलक्षणकर्मत्वस्य परत्वादुभयत्रापि प्राप्तौ 'वारणा नाम्' इत्यपादानत्वं निरवकाशत्वादपवादः स्यादिति माणवकादपि पञ्चमी स्यात्, तद्वाधनार्थ 'कर्तुरीप्सिततमं कर्म' इत्यारब्धव्यम् । एवंच ईप्सितमात्रे अग्नौ साव. For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy