________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
४३४
सिद्धान्तकौमुदी
[ कारक
विकृतेनाङ्गिनो विकारो लक्ष्यते ततः तृतीया स्यात् । अक्ष्णा काणः । अक्षिसम्ब न्धिकाणत्वविशिष्ट इत्यर्थः । अङ्गविकारः किम् । अक्षि काणमस्य । (५६६ ) इत्थंभूतलक्षणे २|३|२१|| कञ्चित्प्रकारं प्राप्तस्य लक्षणे तृतीया स्यात् । जटाभिस्तापसः । जटाज्ञाप्यतापसत्वविशिष्ट इत्यर्थः । ( ५६७) सम्शोऽन्यतरस्यां कर्मणि २|३|२२|| सम्पूर्वस्य जानातेः कर्मणि तृतीया वा स्यात् । पित्रा पितरं वा सजानीते । (५६६) हेतौ २।३।२३॥ हेत्वर्थे तृतीया स्यात् । द्रव्यादिसाधारणं निर्व्यापारसाधारणं च हेतुत्वम् । करणत्वं तु क्रियामात्रविषयं व्यापारनियतं च ।
विग्रहः । येनेत्यनेन प्रकृत्यर्थभूतमङ्गं परामृश्यते । नह्यविकृतेन अङ्गेन अङ्गिनो विकारः सम्भवति । तदाह - येनाङ्गेनेत्यादिना । अक्ष्णा काण इति । काणशब्दः काणत्ववति वर्तते । सम्बन्धस्तृतीयार्थः । स च काणत्वेऽन्वेति । तदाह - प्रक्षिसम्बन्धीति । सम्बन्धश्च विकारप्रयुक्तत्वरूपः । अक्षिविकारप्रयुक्तकाणत्ववानिति यावत् । यद्यपि एकमक्षि विकलं काणमित्युच्यते । तथाप्यवयवधर्मस्य शरीरे तदवच्छिन्नात्मनि व्यवहारा निरूढः । द्वौ विप्रावितिवत् अक्ष्णेति पदस्य प्रयोगः समर्थ्यः । इत्थम्भूतलक्षणे । अयं प्रकारः इत्थं, तं भूतः प्राप्तः इत्थंभूतः 'भू प्राप्तौ' इति चौरादिकात 'आष्टषाद्वा' इति णिजभावे गत्यर्थाकर्मक' इत्यादिना कर्तरि क्तः । लक्षणं ज्ञापकम् । प्रकारविशेषं प्राप्तस्य ज्ञापके ( सम्बन्धे द्योत्ये ) इत्यर्थः । तदाह - कञ्चित्प्रकारमिति । जटाभिस्तापस इति । तपः अस्यास्तीति तापसः । 'तपस्सहस्राभ्यां विनीनी' 'अण्च' इति मत्वर्थीयः अण्प्रत्ययः । तापसत्ववति वर्तते । लक्ष्यलक्षणभावस्तृतीयार्थः । तदाह - जटाज्ञायेति । नच ज्ञाने करणत्वादेव तृतीया सिद्धेति वाच्यम्, करणत्वाविवक्षायां लक्ष्यलक्षणभावमात्रविवक्षायां तृतीयार्थत्वात् । संज्ञोऽन्यतरस्यां कर्मणि । सम्पूर्वस्य ज्ञाधातोरनुकरणात् षष्ठयेकवचनं 'संज्ञ' इति तदाह - सम्पूर्वस्य जानातेरिति । द्वितीयापवादोऽयं तृतीयाविकल्पः । सन्जातीते इति । सम्यक् जानीते इत्यर्थः । 'सम्प्रतिभ्यामनाध्याने' इत्यात्मनेपदम् ।
1
,
तो । वर्थे इति । हेतुरिह कारणपर्यायो लौकिक एवं विवक्षितः, नतु 'तत्प्रयोजको हेतुश्च' इति कृत्रिमः, तस्य चकारेण कर्तृसंज्ञाया अपि सत्वेन कर्तृतृतीययैव सिद्धेः । ननु हेतोरपि करणत्वादेव तृतीया सिद्धेत्याशङ्कय हेतुत्वकरणत्वयोर्भेदमाह - द्रव्यादि - साधारणमिति । आदिना गुणक्रियासङ्ग्रहः । द्रव्यं गुणं क्रियां च प्रति यज्जनकं तत्र सर्वत्र विद्यमानमित्यर्थः । निर्व्यापारसाधारणं चेति । द्वारीभूतव्यापारवति तद्रहिते च विद्यमानं चेत्यर्थः । एवं च द्रव्यगुणक्रियात्मककार्यत्रयनिरूपितं निर्व्यापारसव्यापारवृत्ति च यत् तद्धेतुत्वमिति फलति । करणत्वं त्विति । क्रियाजनकमात्रवृत्ति व्यापारव
For Private and Personal Use Only