SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् १६] बालमनोरमासहिता। ४२३ मण्डूकप्लुत्या अन्यतरस्यां ग्रहणमनुवयं व्यवस्थितविभाषाश्रयणात्वचिन्न । पापे. ऽभिनिवेशः । (५४४) उपान्वध्यावसः १४॥४०॥ उपादिपूर्वस्य वसतेरा. धारः कर्म स्यात् । उपवसति-अनुवसति-अधिवसति-आवसति वा वैकुण्ठं हरिः । 'अभुक्त्यर्थस्य न' ( वा १०८७ ) । वने उपवसति । 'उभसवंतसोः कार्या धिगुपर्यादिषु त्रिषु । द्वितीयाऽऽदैडितान्तेषु ततोऽन्यत्रापि दृश्यते ॥' (वा १४४४) उभयतः कृष्णं गोपाः । सर्वतः कृष्णम् । धिक् कृष्णाभक्तम् । उपर्युपरि इत्यत्रापि कर्मत्वात् द्वितीया स्यादित्यत आह-परिक्रयणे इति ।। 'परिक्रयणे' इति सूत्रादन्यतरस्यां ग्रहणमनुवर्त्य व्यवस्थितविभाषाश्रयणात् कचिन्नेत्यन्वयः । तहि अभिनिविशते सन्मार्गमित्यत्रापि विकल्पः स्यादित्यत आह-व्यवस्थितेति । ननु 'परिक्रयणे सम्प्रदानमन्यतरस्याम्, आधारोऽधिकरणम् , अधिशीस्थासां कर्म, अभिनिविशश्च' इति सूत्रक्रमः । तत्र 'अभिनिविशश्च' इत्यत्र कथमन्यतरस्यांग्रहणानुवृत्तिः, 'आधारोऽधिकरणम्। अधिशीस्थासां कर्म' इत्यत्र च तदनुवृत्तेरभावादित्यत आह-मण्डूकप्लुत्येति । तुल्यमिति शेषः । मण्डकाः यथा मध्ये पदानि सन्ततमप्रक्षिपन्त एव उत्प्लुत्य गच्छन्ति तद्वदनुवत्येत्यर्थः । 'एष्वर्थेष्वभिनिविष्टानाम्' इति समर्थसूत्रे भाष्यप्रयोगोऽत्र मानम् । उपान्वध्यावसः। उप अनु अधि आङ् इत्येतेषां द्वन्द्वः । उपान्वध्यापूर्वो वस् इति विग्रहे शाकपार्थिवादित्वात् समासः। तदाह-उपादिपूर्वस्येति । उपवसतीत्यादि । वैकुण्ठे वसतीत्यर्थः । उपसर्गाः आधारत्व. घोतकाः । अत्र 'वसेरश्यर्थस्य प्रतिषेधः' इति वार्तिकम् । तत्रार्थशब्दो निवृत्तिव. चनः । 'अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु ।' इत्यमरः । भोजनस्यार्थः निवृत्तियं. स्मात् प्रतीयते सः अश्यर्थः, भोजननिवृत्तिवाचकस्य अशेराधारस्य कर्मत्वप्रतिषेध इति यावत् । तदेतदर्थतः सगृह्णाति-अभुक्त्यर्थस्य नेति । ___ अथोपपदविभक्तयः। उभसर्वतसोरिति । वार्तिकम् । उभशब्दसवशब्दप्रकृतिकतसन्तयोः प्रयोगे सति द्वितीया कायेंत्यर्थः । धिगिति । धिक्शब्दस्य प्रयोगे सति द्वितीया कार्या । 'प्रकृतिवदनुकरणम्' इत्यव्ययत्वात्सुपो लुक् । उपर्यादिष्वित्यनेन 'उपर्यध्यधसस्सामीप्ये' इति सूत्रोपात्तान्यव्ययानि गृह्यन्ते । आमेडितान्तस्येति । द्विरुक्तस्य पर. माझेडितम् , तदन्तेषु कृतद्विवंचनेष्विति यावत् । तथाच कृतद्विर्वचनेषु उपर्यादिषु त्रिषु प्रयुज्यमानेषु द्वितीयेत्यर्थः । तत इति । उक्तप्रदेशेभ्योऽन्यत्रापि द्वितीया दृश्यत इत्यर्थः। उभयतः कृष्ण गोपा इति । कृष्णस्य पार्श्वद्वयेऽपीत्यर्थः। आधादित्वात् तसिः । 'उभयोऽन्यत्र' इत्ययच् । षष्ठयथें द्वितीया । सर्वतः कृष्णनिति । कृष्णस्य सर्वेषु For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy