________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १६]
बालमनोरमासहिता।
४०8
कर्म १।४।४६॥ कर्तुः क्रियया आप्तुमिष्टतम कारक कर्मसम्झं स्यात् । कर्तुः किम् । माषेष्वश्वं बध्नाति । कर्मण ईप्सिता माषाः, न तु कर्तुः । तमन्प्रहणं किम् । पयसा ओदनं भुङ्क्ते । 'कर्म' इत्यनुवृत्तौ पुनः कर्मग्रहणमाधारनिवृत्त्यर्थम् । अन्य
सन्नन्तात् 'मतिबुद्धिपूजार्थेभ्यश्च' इति.वर्तमाने क्तः। मतिरिच्छा, बुद्धेः पृथग्ग्रहणात् । 'कस्य च वर्तमाने' इति कर्तरि षष्ठी। अतिशयेनेप्सितमोक्सिततमम् । धावपा. तव्यापाराश्रयः कर्ता । केनाप्तुमित्याकालायां कर्तृविशेषणीभूतव्यापारेणेत्याल्लभ्यते, तत् फलितमाह-कर्तुः क्रिययेत्यादिना। क्तप्रत्ययोपात्तं वर्तमानत्वं तु न विवक्षितम् । तेन कटं करोति, कृतवान् इत्यादौ नाव्याप्तिः। आप्तिः सम्बन्धः । एवं च कर्ता स्वनिष्ठव्यापारप्रयोज्यफलेन सम्बन्धुमिष्यमाणमित्यर्थः । यथा तण्डुलान् पचति इत्यत्र विक्लित्त्यनुकूलव्यापारः पचेरर्थः। तप्तोदकप्रस्वेदनकृतप्रशिथिलावयवकत्वा. त्मकं मृदुविशदत्वं विक्लित्तिः, तदनुकूलव्यापारः अधिश्रयणोदकासेचनधोपकर्षणप्रज्वलनादिरूप इति 'कारके' इत्यादिसूत्रभाष्ये स्पष्टम् । अत एव 'फलव्यापारयो. र्धातुः' इति सिद्धान्तः । तथाच तण्डुलानधिश्रयणादिव्यापारेण विक्लेदयतीत्यर्थः । अधिश्रयणादिरूपकर्तृव्यापारप्रयोज्यविक्लित्तिरूपफलाश्रयत्वात् तण्डुलानां कर्मत्वम् । ननु कर्तृग्रहणं व्यर्थम् । नच व्यापारलाभाय तदिति वाच्यम् , केनाप्तुमित्याकासायां कारकाधिकारादेव तल्लाभादिति पृच्छति-कर्तुः किमिति । माषेश्वश्वं बध्नातीति । माषेषु भक्षणाय प्रवृत्त्युन्मुखमुदरव्यथाभयात्तदक्षणान्निवर्तयितुमन्यत्र बध्नातीत्यः र्थः । अत्र माषाणां कर्मत्वनिवृत्त्यर्थ कर्तृग्रहणमिति भावः । कर्तृग्रहणे कृते तु नोक्तदोष इत्याह-कर्मण ईप्सिता माषाः, न तु कर्तुरिति । बन्धनकर्मीभूतस्याश्वस्यैवात्र माषा ईप्सिताः, नतु बन्धनकर्तुः, अश्वरक्षणस्यैव तदपेक्षितत्वादित्यर्थः।।
तमन्ग्रहणं किमिति । तमबन्तमीप्सिततममित्येतत् किमर्थं 'कर्तुरुद्देश्यं कर्म' इत्ये. वास्त्विति प्रश्नः । पयसा ओदनं भुक्ते इति । पयसा मिश्रमित्यर्थः । यद्यप्यत्र भोक्तु. रोदन एव पयसा मिश्रः उद्देश्यः, नतु केवलं पयः, नापि केवल ओदनः । नासौ केवलपयःपानेन तुष्यति, नापि केवलौदनेन । तथापि यदा भुक्तवानेव पयोलिप्सया पुनरोदनभोजने प्रवर्तते तदेदं प्रत्युदाहरणम् । तत्र यद्यपि पय एव उद्देश्य भुजिक्रियां प्रति, तथापि भुजिक्रियाकर्मीभूतमोदनं प्रति मिश्रणसाधनतया गुणत्वेनैव तदुद्देश्य, नतु भोज्यत्वेन । अतस्तत्र पयसो गुगत्वेन ओदनस्य तत्संस्कार्यतया उद्देश्यत्वादोदनस्यैव ईप्सिततमत्वम् , नतु पयसोऽपि । तस्याप्योदन एवाईप्सिततमः, गुणेष्वस्य नानुरोध इति भावः । नच तमब्ग्रहणं किमर्थम् , 'कर्तुरीप्सितं कर्म' इत्येवास्त्विति वाच्यम् , 'अग्नेर्माणवकं वारयति' इत्यत्र माणवकस्य 'वारणार्थानामीप्सितः' इत्य.
For Private and Personal Use Only