SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदी [स्त्रीप्रत्यय पूतकतारै च ४॥१॥३६॥ अस्य स्त्रियामै आदेशो कीच । 'इयं त्रिसूत्री पुंयोग एवेष्यते' (वा २४४९)। पूतकतोः स्त्री पूतक्रतायी। 'यया तु तवः पूताः स्यात्पूतक्रतुरेव सा' । (४६४) वृषाकप्यग्निकुसितकुसिदानामुदात्तः४।१ ३७॥ एषामुदात्त ऐ आदेशः स्यान्डीच । वृषाकपेः स्त्री वृषाकपायो । 'हरविष्णू वृषाकपी' इत्यमरः । 'वृषाकपायी श्रीगौर्योः' इति च । भन्मायो । कुसितायी-कुखिदायी। कुसिदशब्दो ह्रस्वमध्यो न तु दीर्घमध्यः। (४५) मनोरौ वा __ पूतक्रतोरै च । ऐ इति लुप्तप्रथमाकम् । पूतक्रतुशब्दात् स्त्रियां डीप्स्यात् , प्रकृतेरैकारोऽन्तादेशश्चेत्यर्थः । इयं त्रिसूत्रीति । वार्तिकमिदम् । पूतक्रतोरित्यादिसूत्रत्रयं पुंयोगात् स्त्रियां वृत्तावेवेत्यर्थः। पूतक्रतायीति । पूतः क्रतुः येन सः पूतक्रतुः, तस्य स्त्रीत्यर्थे डीप , तकारादुकारस्य ऐकारः, तस्य आयादेश इति भावः। पुयोग इत्य. स्य प्रयोजनमाह-ययेति । वृषाकप्यग्नि । ऐ चेत्यनुवर्तते । तदाह-एषामिति । वृषाकपायोति । डीप , प्रकृतेरुदात्तः ऐकारोऽन्तादेशः, तस्य आयादेशः, तस्य एकारस्थानिकत्वात् तदाकारोऽप्युदात्त: 'अनुदात्तं पदमेकवर्जम्' इति अवशिष्टानामचामनुदात्त. त्वम् । उदात्त इति किम् । 'लघावन्ते द्वयोश्च बह्वषो गुरुः' इति वृषाकपिशब्दो मध्यो. दात्त:-'नाहमिन्द्राणि रारण सख्युर्वृषाकपेः' इति यथा। अन्ते एकस्मिन् लधौ सति द्वयोर्वा लघ्वोः सतोः पूर्वः बह्वच्कस्य गुरुः उदात्तः स्यादिति तदर्थः । ततश्च षकारादाकारस्य उदात्तत्वे 'अनुदात्तं पदमेकवर्जम्' इत्यवशिष्टानामचामनुदात्तत्व. मिति स्थितिः । तथा च पकारादिकारस्यानुदात्तत्वात् तत्स्थाने ऐकारः अनुदात्त: स्यात् । ततश्च तदादेशभूतायादेशाकारस्याप्यनुदात्तत्वं स्यात् । अतोऽन्न उदात्तत्व. विधिः । अग्नायीति । 'अग्निर्पर्धा' इत्यादौ अग्निशब्दः अन्तोदात्तः, ततो डीप् , प्रकृतेरैकारोऽन्तादेशः, स च भवन्नान्तर्यादुदात्त एव भवति । अतस्तदादेशायादेशाकारस्य उदात्तत्वसिद्धरुदात्त इत्येतदग्निशब्दे अन्वयं न लभते, प्रयोजनाभावात् । कुसितायी कुसिदायीति । कुसितकुसिदे अव्युत्पन्नप्रातिपदिके देवताविशेषस्य नामधेये, फिटस्वरेणान्तोदात्ते । ततो डीप ऐकारश्चान्तादेशः, सच भवन्नान्तर्यादुदात्त एवेति कुसितकुसिदशब्दयोरपि उदात्त इत्यस्य नान्वय इति वृत्त्यादिग्रन्थेषु स्थितम् । अतएवाह-कुसिदशब्दो हस्वमध्यो न तु दीर्घमध्य इति । दीर्घमध्यत्वे हि 'लघावन्ते' इति मध्योदात्ततया शिष्टस्वरेण दकारादकारस्यानुदात्ततया तत्स्थाने ऐकारस्यानुदात्ततया तत्स्थाने तत्स्थाने आयाकारस्यानुदात्तत्वापत्त्या तन्निवृत्त्यर्थं तत्रा. प्युदात्तग्रहणस्यावश्यकत्वादुदाहृतवृत्त्यादिग्रन्थविरोधः स्पष्ट एवेति भावः For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy