SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२ सिद्धान्तकौमुदी [सम्ज्ञा इत्यत्र 'हो ढः' (सू ३२४ ) इति ढत्वं न भवति । अनुनासिकाननुनासिकभेदेन यवला द्विधा । तेनाननुनासिकास्ते द्वयोर्द्वयोः सञ्ज्ञा । (१५) तपरस्तत्कालस्य १११७०। तः परो यस्मात्स च तात्परश्वोच्चार्यमाणःसमकालस्यैव सज्ञा स्यात् । तेन 'अत्' 'इत्' 'उत्' इत्यादयः षण्णां षण्णां सज्ञा । 'ऋत्' इति प्रश्लेषे प्रमाणम् । अन्यथा तत्र ढत्वस्य संयोगान्तलोपस्य वा आपत्तौ आकारो न श्रूयेतेत्यलम् । ननु ग्रहणकसूत्रे अज्ग्रहणमेव क्रियताम् । अणुदित्सवर्णस्येति किमण्ग्रहणेन हयवरलानां सवर्णाभावेन तेषु ग्रहणकशास्त्रस्य व्यर्थत्वादित्यत आह-- अनुनासिकेति । तेनेति । उक्तद्वैविध्येन सवर्णत्वात् अननुनासिकास्ते यवलाः प्रत्येक द्वयोद्वयोः सज्ञाः। अनुनासिकास्तु यवलाः अननुनासिकानामपि न सज्ज्ञाः, 'भेदका गुणा' इत्याश्रयणात् वर्णसमाम्नाये अननुनासिकानामेव तेषां पाठाच्च । एवं च यवलसङ्ग्रहार्थ ग्रहणकसूत्रे अज्ग्रहणमपहाय अण्ग्रहणमिति भावः । ग्रहणकसूत्रे अण् सवर्णानां ग्राहक इति स्थितम् । एवं सति अत् इत् उत् इत्यादितपराणामप्यणां स्वस्वसर्वसवर्णग्राहकत्वे प्राप्ते इदमारभ्यते--तपरस्तकालस्य । तपर इत्यावर्तते । प्रथमस्तावत्तपरशब्दः तः परः यस्मादिति बहु. ब्रीहिः। द्वितीयस्तु तात् पर इति पञ्चमीसमासः । ग्रहणकसूत्रादणित्यनुवर्तते । तस्य तपरत्वेन उच्चार्यमाणवर्णस्य काल इव कालो यस्येति बहुव्रीहिः। उकाल: उष्टमुख इत्यादिवत् समासः । एवं च 'अत्' 'इत्' इत्याद्यात्मकः अण तपरत्वेन उच्चार्य. माणः स्वीयकालसदृशकालस्य सज्ञा स्यादित्यर्थः । तत्र अत् इत् उत् ऋत् इत्ये. तेषां तपराणां ह्रस्वाकारादीनामणां तत्तत्कालाः तत्तद्धस्वप्रपञ्चाः । एत् , ऐत्, ओत् औत् इत्येतेषां तु तपराणामेकारादीनां तत्तत्कालाः तत्तहीर्घप्रपञ्चाः। तत्र हस्वाकारादीनां तपराणां तत्तद्धस्वप्रपञ्चवाचकत्वस्य एकारादीनां च दीर्घाणां तपराणां स्वस्वदीर्घप्रपञ्चवाचकत्वस्य लोकसिद्धत्वात् 'सिद्ध सत्यारम्भो नियमार्थः इति न्यायेन सूत्रमिदं नियमार्थ सम्पद्यते। अण् तपरश्चेत् तत्कालस्यैव सवर्णस्य ग्राहकः । न त्वतत्कालस्येति । एवं च अतत्कालनिवृत्त्यात्मकपरिसङ्ख्यार्थमिदं सूत्रम् । वैयाकरणास्तु परिसंङ्ख्याविधिमेव नियमविधिरिति व्यवहरन्ति । तदिदं सर्वमभिप्रेत्य व्याचष्टे-तः परो यस्मादित्यादिना। नियमविधानस्य फलमाह-- तेनेत्यादिना । तेन नियमविधानेन । आदिना लत् इत्यादिसंग्रहः। अत् , इत् , उत् , लत् , एत् , ऐत् , ओत् । औत् , इत्येते अष्टौ तपराः अणः स्वस्वसमानकालानां षण्णां षण्णामेव संज्ञाः, न त्वत्तत्कालानामित्यर्थः । ऋदिति द्वादशानामिति । ऋलवर्णयोरिति सावर्ण्यविधानादिति भावः। नन्वेवं लदित्यपि द्वादशानां ग्रहणं For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy