SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१४ सिद्धान्तकौमुदी [अजन्तनपुंसकलिङ्ग दन्ताः ॥ नौः ग्लोवत् ॥ इत्यौदन्ताः ॥ इत्यजन्तस्त्रीलिङ्गप्रकरणम् । अथ अजन्तनपुंसकलिङ्गप्रकरणम् ॥१०॥ (३०६) अतोऽम् ॥१॥२४॥ अतोऽङ्गात्क्लीवात्स्वमोरम्स्यात् । 'अमि पूर्वः (सू १९४)। ज्ञानम् । 'एड्ह्रस्वात्-(सू १९३) इति हरुमात्रलोपः। हे.ज्ञान । .. अथ ऐदन्ता निरूप्यन्ते । राः पुंवदिति । 'रायो हलि ।इत्यात्वम् । 'राः स्त्रीत्येके' इति क्षीरस्वाम्युक्त स्त्रीलिङ्गोऽप्ययमिति भावः । इत्यैदन्ताः। .. अथ औदन्ता निरूप्यन्ते। नौग्लौवदिति। 'स्त्रियां नौस्तरणिस्तरिः' इत्यमरः । इत्यौदन्ताः॥ , इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायामजन्तस्त्रीलिङ्गनिरूपणं समाप्तम् । imo प्रथाजन्तनपुंसकलिङ्गा निरूप्यन्ते । ज्ञानशब्दात सुः 'स्वमोनपुंसकात्' इति तस्य लुकि प्राप्ते । अतोऽम् । अत इति पञ्चमी। अङ्गस्येत्यधिकृतं पञ्चम्या विपरिणम्यते । अत इत्यनेन विशेष्यते। तदन्तविधिः । 'स्वमोनपुंसकात्' इत्यनुवर्तते । तदाहअतोऽङ्गादिति । अदन्तादङ्गादित्यर्थः । ज्ञानमिति । सोरमि कृते अमि पूर्वरूपम् इति भावः । अमोऽम्विधानं तु 'स्वमोनपुंसकात्' इति लुनिवृत्त्यर्थम् । ननु अतः म् इत्येव छेदोऽस्तु । सोर्मकारादेशे ज्ञानमिति सिद्धेः। अमि च 'आदेः परस्या इति अकारस्य मकारे अन्त्यस्य मकारस्य संयोगान्तलोपेनैव ज्ञानमिति सिद्धेरिति चेत्, मैवम्-एवं सति ज्ञानमित्यत्र 'सुपि च' इति दीर्धापत्तः। न च अदन्तसन्निपातमाश्रित्य प्रवृत्तस्य मादेशस्य तद्विघातकदीर्घनिमित्तत्वं न सम्भवतिः सन्निपातपरिभाषाविरोधादिति वाच्यम् , 'सुपि च' इति दीर्थे कर्तव्ये सत्रिपातपरिभाषाया अप्रवृत्तेरि. त्युक्तत्वादित्यलम् । हे ज्ञानेति । हे ज्ञान स् इति स्थिते सोरमि कृते पूर्वरूपे 'एह. स्वात्' इति मकारलोपे हे ज्ञानेति रूपम् । ननु एहस्वादित्यत्र संबुद्धयाक्षिप्तस्य संबुद्धथैवान्वय उचितः। ततश्च एडन्ताधस्वान्ताच्चाङ्गात् परा या सम्बुद्धिः तदव. यवस्य हलो लोप इति लभ्यते । ततश्च प्रकृते पूर्वरूपे कृते तस्य पूर्वान्तत्वाश्रयेण ज्ञान इत्यदन्तमङ्गम् । ततः परा सम्बुद्धिर्नास्ति मकारमात्रस्यासम्बुद्धित्वात् , सुख्यानिकल्याम एवं सम्बुद्धित्वात् , अर्धविकारेण एकदेशविकृतन्यायानवताराच्च । न च For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy