SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५४ सिद्धान्तकौमुदी [अजन्तपुंलिश - ६४१२६॥ इत्यधिकृत्य । (२३४) अल्लोपोऽनः ६४।१३४॥ अहावयवोऽस. वनामस्थानयजादिस्वादिपरो योऽन् तस्याकारस्य लोपः स्यात् । (२३५) रषा. भ्यां नो णः समानपदे ४॥२॥ एकपदस्थाभ्यां रेफषकाराभ्यां परस्य नस्य णः स्यात् । यूष्णः। यूष्णा । 'पूर्वस्मादपि विधौ स्थानिवदभावः' इति पक्षे तु देशे यूषन् अस् इति स्थिते । अल्लोपोऽनः । अत् इति लुसषष्ठीकं भिन्न पदम् । अन इत्यवयवषष्ठयन्तम् अतो विशेषणम्-अनोऽवयवो योऽकारः तस्य लोप इति । अङ्ग स्येत्यधिकृतम् इहावयवषष्ठयन्तमाश्रीयते। तवान हत्यत्रान्वेति-अङ्गावयवो या अन् तदवयवस्य अकारस्य लोप इति । भस्येत्यधिकृतम् । अन इत्यनेनान्वेति । ततश्चान: असर्वनामस्थानयजादिस्वादिपरत्वं लभ्यते । तदाह-अङ्गावयव इत्यादिना । अनन्तस्य भस्याङ्गस्याकारस्य लोपः स्यादिति प्राचां व्याख्याने तु तक्ष्णेत्यत्र तकारादकारस्यापि लोपप्रसङ्गः । भस्याङ्गस्यानोऽकारस्य लोप इति व्याख्याने तु अनसा मनसेत्यत्राति. व्याप्तिः । अन इत्यावर्त्य अन्नन्तस्य भस्याङ्गस्यानोऽकारस्य लोप इति व्याख्याने तु अनस्तक्ष्णेत्यत्रातिव्याप्तिरेव । तस्मादुक्कैव व्याख्येत्यन्यत्र विस्तरः। यूषन् अस् इत्यत्र षकारादकारस्य लोपे यूष - अस् इति स्थिते । रषाभ्याम् । षाभ्यामिति दिग्योगे पञ्चमी । परस्येत्यध्याहार्यमू । समानशब्द एकपर्यायः। यथा-समानग्रामा वयमिति । आधारसप्तमीबलात् विद्यमानाभ्यामिति लभ्यते । नः इति षष्ठी। तदाह-एकपदस्थाभ्यामिति । एकत्वं चेहाखण्डत्व विवक्षितम् , पदे इत्येतावतैव सिद्धे समानग्रहणसामर्थ्यात् । अन्यथा रामनामेस्यादौ 'अट्कुम्वाङ्' इति णत्वापत्तिः । एतस्यैव समानपदशब्दस्य तत्राप्यनुवृत्तः । मातृभोगीणः इत्यत्र णत्वं तु तद्धिताधिकारे वक्ष्यते । यूष्ण इति । शसि रूपम् । यूष्णेति। तृतीयैकवचनम् । नचाल्लोपस्य स्थानिवद्भावात् नकारस्य षात् परत्वं नेति शड्यम् , 'रषाभ्याम् इति षात्परस्य हि नस्य णत्वे कर्तव्ये अल्लोपस्य स्थानिवद्भावो नापेक्षितः । किन्तु णत्वाभावे तदपेक्षा । णत्वाभावश्चाशास्त्रीयत्वान्नातिदेश्यः । स्थानिनि सति यत्कार्य भवति तदेव हि स्थानिवत्सूत्रेणातिदिश्यते । स्थानिनि सति यन्न भवति तदादेशेऽपि न भवतीत्येवं कार्याभावस्त्वशास्त्रीयत्वान्नातिदिश्यते इति स्थानिवत्सूत्रे अवोचाम। यद्यपि 'अचः परस्मिन्' इत्यत्र अशास्त्रीयः कार्याभावोऽप्यतिदिश्यत इत्यभ्यधायि । तथापि नेह तस्यापि सूत्रस्य प्रवृत्तिरस्ति । स्थानीभूतादचः पूर्वत्वेन दृष्टस्यैव विधौ तत्प्रवृत्तः । इह चाल्लोपस्थानीभूतादकारात् परस्यैव णत्वविधानादिति भावः । ननु 'अचः परस्मिन्' इति सूत्रे स्थानिभूतादचः पूर्वस्मात् परस्य विधावजा. देशः स्थानिवदिति पक्षोऽपि भाष्ये स्थितः। एवंचात्र लोपादेशस्थानीभूतादकारात् For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy