________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ८ ]
बालमनोरमासहिता ।
रूपाणि सर्वनामसंज्ञानि स्युः । तदन्तस्यापीयं संज्ञा । 'द्वन्द्वे च' ( सू २२४ ) इति ज्ञापकात् । तेन 'परमसर्वत्र' इति त्रल् 'परमभवकान्' इत्यत्राकच्च सिध्यति । हेरन्यपदार्थप्रधानत्वात् सर्वशब्दस्य च समासवर्तिपदार्थत्वादन्यपदार्थत्वाभावाद्विवादिशब्दानामेव सर्वादिशब्देन बहुबीहिणावगमात् सर्वनामसञ्ज्ञा स्यात्, न तु सर्वशब्दस्यापीति चेत्, उच्यते--सर्वः आदिर्यस्य समुदायस्येति विग्रहः । सर्वशब्दघटितः समुदायः समासार्थः । समुदाये च प्रवर्तमाना सर्वनामसञ्ज्ञा क्वचिदपि अप्रयुज्यमाने तस्मिन् वैयर्थ्यादानर्थक्यात्तदङ्गेष्विति न्यायेनावयवेष्ववतरन्ती अविशेषात् सर्वशब्देऽपि भवति । एवं चात्र सर्वशब्दस्य स्वरूपेण वर्तिपदार्थता, समुदायरूपेण त्वन्यपदार्थ प्रवेशः । नच समुदायस्यान्यपदार्थत्वे सर्वादीनीति बहुवचनानुपपत्तिः शङ्कया, सर्वशब्दघटितस्य विवक्षितावयवसङ्ख्यस्य समूहस्यान्यपदार्थत्वात् । उद्भुतावयवभेदः समुदायः समासार्थ इति कैयटोकेरप्ययमेवार्थः । अतो न बहुवचनस्यानुपपत्तिः । तदेवं व्याख्याने हलि सर्वेषामित्यादिनिर्देशः प्रमाणम् । सर्वशब्दस्य सर्वनामत्वाभावे तु सर्वेषामित्यादौ सर्वनामकार्याणि सुडादीनि न स्युः । तथाच सर्वादोनीति तद्गुणसं विज्ञानो बहुव्रीहिः । तस्यान्यपदार्थस्य गुणाः विशेषणानि वर्तिपदार्थरूपाणि तेषां संविज्ञानं क्रियान्वयितया विज्ञानं यत्र सः तद्गुणसंविज्ञान इति व्युत्पत्तिः । यत्र संयोगसमवायान्यतरसम्बन्धेनान्यपदार्थे वर्तिपदार्थान्वयः तत्र प्रायेण तद्गुणसंविज्ञानो बहुवीहिः । यथा-- द्विवासा देवदत्तो भुङ्क्ते, लम्बकर्ण भोजयेत्यादौ । तत्र हि वासलोः कर्णयोश्च भुजिक्रियान्वयाभावेऽपि सन्निहित्वमात्रेण तद्गुणसंविज्ञानत्वम् । प्रकृते च समुदाये अन्यपदार्थे सर्वशब्दस्य समवायान्तर्गतारोपितावयवावयविभावसम्बन्धसत्वात्तद्गुणसं विज्ञानत्वम् । स्वस्वामिभावादिसम्बन्धेनान्यपदार्थं वर्तिपदार्थान्वये त्वतद्गुणसंविज्ञानो बहुव्रीहिः । यथा - चित्रगुमानयेत्यादाविलम् । ननु सर्व विश्व इत्येवं सर्वादिशब्दानां केवलानामेव सर्वादिगणे पाठात् परमसर्वादिशब्दानां कथं सर्वनामतेत्यत आह - तदन्तस्यापीति । द्वन्द्वे चेतीति । द्वन्द्वे चेत्यनेन सर्वादिशब्दान्तद्वन्द्वस्य सर्वनामसंज्ञा प्रतिषिध्यते वर्णाश्रमेतराणामित्यादौ । यदि केवलानामेव सर्वादिगणपठितानां सर्वनामता, नतु तदन्तानामपि, तर्हि तत्प्रतिषेधो व्यर्थः स्यात् । अतस्तदन्तस्यापीयं संज्ञेति विज्ञायत इत्यर्थः । ननु परमसर्वादिशब्देषु गणपठितानां केवलानामेव सर्वादिशब्दानामस्तु सर्वनामता, मास्तु तदन्तानामपि । 'सर्वनाम्नः स्मै' इत्यादिसर्वनामकार्याणामङ्गाधिकारस्थत्वेन पदाङ्गाधिकारे तस्य च तदन्तत्य चेति परिभाषया परमसर्वस्मै इत्यादिषु सिद्धेरित्यत आह| तदन्तस्यापि संज्ञाबलेनेत्यर्थः । सिद्धयतीति । सप्तम्यास्वलिति सप्तम्यवात् सर्वनाम्नो विधीयमानखल् 'अव्यय सर्वनाम्नाकच् प्राक्टेः' इत्यज्ञाताद्यर्थेषु
1
For Private and Personal Use Only
१३५