SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२८ सिद्धान्तकौमुदी [अजन्तपुंलिङ्ग स्यात् । 'भवामि 'भविष्यामि' इत्यादौ विकरणविशिष्टस्याङ्गसंज्ञार्थ तदादिग्रहणम् । विधिः' इति किम् । स्त्री इयती। 'प्रत्यये किम् । प्रत्यय विशिष्टस्य ततोऽप्यधिमिति । प्रकृते च रामशब्दस्य प्रकृतिमात्रस्य तदादित्वं व्यपदेशिवद्भावात् बोध्यम् । ननु यस्मात् प्रत्ययविधिस्तदङ्गमित्येवास्तु । किमादिग्रहणेनेत्यत आह- भवामीति । भूधातोर्लट मिप् कर्तरि शबिति विकरणसंज्ञः शप । गुणावादेशौ। अतो दीपों यजीति 'भव' इत्यङ्गस्य दीर्घः । भवामीति रूपम्। तथा भूधातोर्लट् मिप् । 'स्यतासो ललुटो' इति विकरणसंज्ञः स्यः । इट् । गुणावादेशौ । षत्वम् । अतो दी? यनीति भविष्य इत्यङ्गस्य दीर्घः । भविष्यामीति रूपम् । अत्र आदिग्रहणाभावे मिष्प्रत्यये परतो भू इति प्रकृतिमानस्य अङ्गसंज्ञा स्यात् भूशब्दादेव मिप्प्रत्ययविधेः, नतु भव इत्यस्य भविष्य इत्यस्य च विकरणविशिष्टस्य, ततो मिप्प्रत्ययविधेरभावात् । ततश्च अतो दीर्घो यजीति मिप्प्रत्यये परतो दी| न स्यात् । अतः आदिग्रहणमित्यर्थः । • विधिरिति किमिति-यस्माद्यः प्रत्ययः परत्वेन श्रूयते तदादि शब्दरूप तस्मिन् प्रत्यये असंज्ञमित्येतावतैव सिद्धे विधिग्रहणं किमर्थमिति प्रश्नः । स्त्री इयतीति । इदं परिमाणमस्या इत्यर्थे इदंशब्दात् 'किमिदम्भ्यां वो घ: इति वतुप, वस्य घश्च । तस्य इयादेशः । इदंकिमोः इति इदम ईश् । शिस्वात् सर्वादेशः । ई इयत् इति स्थिते 'यस्येति च इतीकारलोपः । इयत् इति प्रत्ययमात्रमवशिष्यते। उगितश्चेति डीपि इयतीति रूपम् । अत्र विधिग्रहणाभावे स्त्री इयतीत्यत्र रेफादीकारस्य स्त्रियाः इत्यङ्गकार्यमियङ् स्यात् । स्त्रीशब्दात्परत्वेन इयदिति प्रत्ययस्य भूयमाणत्वात्। नच यस्येति लोपस्याभीयत्वेनासिद्धत्वादजादिप्रत्ययपरकत्वाभावानात्र इयङः प्रासिरिति वाच्यम् , अन्यूनानतिरिक्तसमानाश्रये कार्य कर्तव्य एव आभीयासिद्धत्वस्य प्रवृत्तेः । अस्ति च यस्येति चेति शास्त्रापेक्षया स्त्रिया इति सूत्रे अधिकस्य स्त्रीशब्दस्यापेक्षा । कृते तु विधिग्रहणे इयङन्न न भवति, वतुप इदम एवात्र विहितत्वेन तस्मिन् परे स्त्रीशब्दस्याङ्गत्वाभावात् । नच यस्येति लोपस्य इयङि कर्तव्ये अचः परस्मिन्निति स्थानिवद्भावः शङ्कयः, पदान्तविधौ तनिषेधात् । स्त्रीशब्दस्य सुनिरूपिताङ्गत्वेऽपि नेयङ्, प्रत्यासत्त्या अजादिप्रत्ययनिरूपिताङ्गत्वे तत्प्रवृत्तः । प्रत्यये किमिति । यस्मात् प्रत्ययविधिस्तदाद्यङ्गमित्येतावदेवास्त्वित्यर्थः । प्रत्ययविशिष्टस्य ततोऽप्यधिकस्य वा मा भूदिति । तदादि शब्दरूपं कियदित्यपेक्षायामविशेषात् प्रत्ययविशिष्ट वा ततोऽप्यधिक वा निरवधिकमङ्गं स्यात् । नच यस्मात्प्रत्ययेति प्रत्ययस्य श्रुतत्वात् प्रत्ययावध्येवाइत्वं भविष्यतीति वाच्यम्, यस्मात् प्रत्ययविधिस्तदादीत्यर्थसमर्पणेन तस्य प्रत्ययग्रहणस्य चरितार्थत्वात्। ततश्च प्रत्ययविशिष्टस्याङ्गत्वे वधश्चेत्यत्र प्रत्ययविशिष्टस्याङ्गत्वेन उरदित्यादेशस्य परनिमित्तत्वालाभादचः परस्मिन्निति स्थानिवत्वा. For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy