SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बालमनोरमाव्याख्योपेता वैयाकरणसिद्धान्तकौमुदी। मुनित्रयं नमस्कृत्य तदुक्तीः परिभाव्य च । वैयाकरणसिद्धान्तकौमुदीयं विरच्यते ॥ १ ॥ स जयति दिव्यनटेशो नृत्यति योऽसौ चिदम्बरसभायाम् । पाणिन्याया मुनयो यस्य च दयया मनोरथानभजन ॥१॥ अस्तु नमः पाणिनये भूयो मुनये तथास्तु वररुचये। किंचास्तु पतञ्जलये भ्रात्रे विश्वेश्वराय गुरवे च ॥ २ ॥ व्याख्याता बहुभिः प्रौढै रेषा सिद्धान्तकौमुदी । वासुदेवस्तु तद्वयाख्यां वष्टि बालमनोरमाम् ॥ ३ ॥ ॐ मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि च शास्त्राणि प्रथन्ते । वीरपुरुषाणि भवन्त्यायुष्मत्पुरुषाणि च, अध्येतारश्च वृद्धियुक्ता यथा स्युः' इति वृद्धिसूत्रस्थमाध्यादिस्मृतिसिद्धकर्तव्यतार्क ग्रन्थादौ कृतं मङ्गलं शिष्यशिक्षायै ग्रन्थतो निबध्नन् प्राचीनग्रन्थैरगतार्थतां विषयप्रयोजनसम्बन्धाधिकारिणश्च सूचयन् चिकिर्षितं प्रतिजानीते-मुनित्रयमिति श्लोकेन। इयं वैयाकरणसिद्धान्तकौमुदी विरच्यत इत्यन्वयः। इयमिति ग्रन्थरूपा वाक्यावलिविवक्षिता। भाविन्या अपि तस्याः बुद्धया विषयी. करणादियमिति प्रत्यक्षवनिदेशः। व्याकरणमधीयते विदन्ति वा वैयाकरणाः, तेषां सिद्धान्ताः एते शब्दाः साधव इति निश्चितार्थाः, तेषां कौमुदी चन्द्रिका । अत्यन्तसाव्यात्ताप्यव्यपदेशः । चन्द्रिका हि तमो निरस्यति । भावान् सुखं प्रकाशयति । For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy