SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः] स्वोपज्ञदुर्गपदव्याख्यालङ्कृतम् । [६१ विभ्रमचित्रम् । सुव्रतेश ! सुमतेऽभिनन्दनाऽनन्तधर्मजिनवर्धमान ! तु । नेमिनाथ! ऋषभश्रियाऽऽश्रितः, पार्श्वदेव ! शरणं त्वमेव मे ॥७६।। दु० व्या०-पुनर्विभ्रमचित्रम् । सुनतेति-हे सुव्रतेश ! हे सुमते ! हे अभिनन्दन ! हे अनन्त ! हे धर्म ! हे जिन ! हे वर्धमान ! हे नेमिनाथ ! हे वृषभ ! इति । आद्यवृत्ते श्रीपार्श्व एव स्तुतः । अत्र तु बहवो जिनाः संबोध्यन्ते । कस्यैषा स्तुतिरित्यहो-विभ्रमः ॥ अथ व्याख्या-अमून्यामन्त्रणानि श्रीपार्श्वस्यैव ज्ञेयानि । शोभनवतानां ईशः स्वामी तस्य संबोधनम् । शोभना मतिर्दयारूपा यस्य तस्य संबोधनम् । अभि सामत्येन नन्दन:समृद्धिकरस्तस्य संबोधनम् । अनन्तः-अविनाशो धर्मो यस्य तीर्थव्यवच्छेदाभावात् तस्य संबोधनम् । जिनेषु केवलिष्वतिशयादिभिः वर्धमानस्तस्य संबोधनम् । तु एवार्थः । नेमय:-प्रणमनशीलाः नाथा:-भूर्भुवः स्वःपतयो यस्य सः, तस्य संबोधनम् । हे पार्श्वदेव ! मे-मम त्वमेव शरणम् । किविशिष्टः ? ऋषभश्रिया धुर्यः-लक्ष्म्या आश्रितः । वसभ इव जायत्थामेति वचनात् ॥७६॥ स्तुन्वेति चित्रदैः कोव्यैः, मरिमाणिक्यसुन्दरः। याचेऽहं त्वत्पदाम्भोजे, रङ्गाद् भृङ्गायितं प्रमो!"७७॥ दु० व्या०-अथ फलमाह-स्तुत्वेत्यादि सुगमम् ॥ ७७ ।। तत्राऽऽगतोऽप्रावसरे सुरेन्द्रस्तद् वीक्ष्य वृत्तं हृदि विस्मितस्तम् । जगौ जिनेन्द्रेश्वविशेषवत्सु, किं ते विशेषः प्रभुपार्श्वदेवे ॥७॥ तं वजिणं वीक्ष्य पुरः स्फुरद्भिविभूषणैर्भासितदिङमुखं सः। विद्वान् विधिं वैनयिकं विधाय, पूर्व स्वधृतं सबभाषे ॥७९।। दु० व्या०-विद्वान्-जानन् ॥ ७९ ॥ १ पैMनिमा' A1 For Private And Personal Use Only
SR No.020723
Book TitleShridhar Charit Mahakavyam
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Gyanvijay
PublisherChandulal Lakhubhai Parikh
Publication Year1951
Total Pages199
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy