SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५० ] श्रीश्रीधरचरितमहाकाव्यम् । [ षष्ठः > कच्चिद् द्वितीयं हृदयं तृतीयं विनिद्रनेत्रं मम तत्र मित्रम् | रत्नाङ्गदः पाति नृपः प्रतापप्राज्यं च राज्यं विजितारिवर्गः ||२२|| तस्य प्रधानं गुणसंनिधानं, प्रधानवत् साङ्ख्यमते प्रधानम् । त्वमेष हृल्लेख करश्चिराद् वा, प्रीत्यै स्वमित्रागतपक्षिणोऽपि ॥ २३ ॥ दु० व्या - प्रधानवत् - प्रकृतिवत् । हल्लेख:- उत्कण्ठा ॥ २३ ॥ 1 एष स्वभावः स्थिरसौहृदानां यथाऽर्कपद्मेन्दुपयोनिधीनाम् । मिथो यदाssलोकनतः प्रमोदस्तथापि कार्यश्रवणे विनोदः ||२४|| ऊचेऽथ भूपं सचिवः स्वरूपं, भवद्भिरः किं न वदन्तिरूपम् । इदं समाधानपदं हृदन्तर्मुदं ददत् ते विदधे तथापि ॥ २५ ॥ "7 दु० व्या० - वदन्तिरूपं प्रकृष्टम् । वदन्ति " त्यादेश्च प्रशस्ते रूपपू [ ७.३.१०.] प्रत्ययः । समाधानम् - उत्तरम् । पक्षे वैं - निश्चितम् ॥ २५ ॥ जित्वा दिवं रत्नपुरं विराजि, यल्लक्ष्मणानामपि वै जयन्ती । अबाधया यत्र पुमर्थ माजां, साम्यं प्रजानां दधते न देवाः ॥ २६ ॥ दु० व्या० - जयन्ती - इन्द्रपुत्री ॥ २६ ॥ रत्नोज्ज्वलैरिभ्यजनस्य हयैर्धर्मालयै मौक्तिकधर्मरम्यैः । अहो ! महीमण्डलमण्डनाय, तन्मण्डलं कुण्डलतामियर्ति ||२७|| रत्नाङ्गदे रक्षति बाहुदण्डमिव क्षमामण्डलमिद्धकान्तौ । कुतः कुशोभारिपवोऽभितस्तत् पराभवं कर्तुमलं भवन्ति ||२८|| दु० व्या० - कुशोभा - एकः, कुशोभा - पृथ्वीशोभा तस्या रिपवः ॥ २८ ॥ For Private And Personal Use Only
SR No.020723
Book TitleShridhar Charit Mahakavyam
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Gyanvijay
PublisherChandulal Lakhubhai Parikh
Publication Year1951
Total Pages199
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy