SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः] स्वोपशदुर्गपदव्याख्यालङ्कृतम् । [३७ शूरोऽसि कृतविद्योऽसि, दर्शनीयोऽसि पुत्रक!। यस्मिन् कुले भवान् जातो, गजस्तत्र न हन्यते ॥२०॥ इति वक्रोक्तिगर्भेण, दूतस्य वचसा ज्वलन् । सचिवः शुचिवाक् माह, क्रुधाऽरुणमुखेक्षणः ॥ २१ ॥ भूताभिभूत ! रे दूत !, दोषस्यूतदुराशय !। परभूपसभामेत्य, वक्तुं नो वेत्सि तुच्छधीः ? ॥ २२ ॥ जयचन्द्रकुलोद्भुतं, गजभ्रमहदि स्थितम् । भूपं श्रीविजयं मन्ये, केऽन्ये वेश्मान्धुदर्दुराः ॥ २३ ॥ दु० व्या०-अन्धु:-कूपः ॥ २३ ॥ रत्नाकरे कौस्तुभरत्नमासीद्, दासीकृताशेषमणिः स्वकान्त्या। अतिष्ठिपत् तत्पुरुषोत्तमोऽपि, हृदि स्वयं तन्नहि कस्य वर्ण्यम् ॥२४॥ इति निर्भत्सितो बाढमर्धचन्द्रानिरासितः। दूतो गत्वाऽऽह तत् सर्व, वाराणस्यां निजेशितुः ॥ २५ ॥ अयं सैन्यस्यं कुर्वन् , मन्त्रिवाचा चराचरात् । प्रेषीज्ज्ञातुं द्विषवृत्तं, राजानश्चरचक्षुषः ॥ २६ ॥ इतश्च विजयं भूपं, पौराश्चौराद् गतस्वकम् । स्वकं विज्ञपयामासुः, सोऽप्यारक्षमभाषत ॥ २७ ॥ दु० व्या०-गतस्वकम्-गतद्रव्यम् ॥ २७ ॥ रे! रे!! त्वमेव लुण्टाको, यल्लुण्टाकान रक्षसि । स जगौ देव ! दुर्ग्राह्यचौरोऽयं खेचरो यथा ॥ २८ ॥ , वाणारस्यां B. For Private And Personal Use Only
SR No.020723
Book TitleShridhar Charit Mahakavyam
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Gyanvijay
PublisherChandulal Lakhubhai Parikh
Publication Year1951
Total Pages199
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy