SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८] श्रीश्रीधरचरितमहाकाव्यस् । चतुर्थः मृगयाव्यसनी सोऽयं, ससैन्योऽत्रावतिष्ठते । अहं भृत्योऽस्मि तस्यातस्त्वमप्येहि नृपान्तिकम् ।। ५५ ।। नोत्तिष्ठति कुमारेऽस्य, वृत्ते चानेन वेदिते। भूभुजा स्वान्तिकं भृत्यैरानायि विनयेन सः ॥ ५६ ।। तेनालापं नृपः कुर्याम् , यावत तावचरैनरैः। ऊचे पवनवेगेन, कुरङ्गा यान्त्यमी इति ।। ५७ ॥ तच्छ्रुत्वा चापभृद् भूपो, हयारूढो रयादभूत् । विततार कुमाराय, चतुरं च तुरङ्गमम् ॥ ५८ ।। सोऽपि तं हयमारुह्य, परासह्यपराक्रमः । सतन्त्रं भूपति स्माह, सोत्साह्यचनक्रमः ॥ ५९॥ ययमेकदिशा यात, प्रेरयध्वं मृगानितः । स्थाने यथाऽहमेकोऽपि, रक्षामि निखिलानमून् ।। ६० ॥ दु० व्या०-स्थाने पक्षे युक्तम् ॥ ६० ॥' राज्ञा तथाकृते तेन, कुमारेण कुमारणात् । विमुक्ता हरिणाः सर्वे, धर्मद्वारा प्रजा इव ॥ ६१ ।। कुपितेनेव भूपेन, किमेतद् विहितं त्वया । इत्युक्त सोऽवदत् तात ! , युक्तमेव मया कृतम् ।। ६२ ।। रणाङ्गणेऽपि मुच्यन्ते, वैरिणस्तृणभक्षणाव । निर्वैरा हरिगा एते, वधमर्हन्ति तत् कथम् ? ।।६३ ॥ रणाङ्गणे यो मत्खड़गनटो नर्तयते भटान् । कथंकारं करोत्येष, कुरङ्गेषु विजम्भितम् ॥ ६४ ॥ १. ॥ तथा राज्ञाक° A For Private And Personal Use Only
SR No.020723
Book TitleShridhar Charit Mahakavyam
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Gyanvijay
PublisherChandulal Lakhubhai Parikh
Publication Year1951
Total Pages199
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy