SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५२] श्रीश्रीधरचरितमहाकाव्यम् | इति प्रत्युत्तरं प्राप्य, पुना राज्ञी प्रियं जगौ । सत्यमेतत् परं नाथ, चारित्रमपि दुष्करम् ॥ १९६ ॥ कार्या केशोद्धृतिः सह्याः, क्षुत्तृपादिपरीपहाः । नित्यं चैव तपः क्लेशस्तां पुनः क्ष्मापतिर्जगौ ॥ १९७ ।। तिर्यग्योनिगतः स्वात्मा, वध-बन्धादिकं भवे । परहस्तगतः सेहे, किं दुःखं देवि ! संयमे ॥ १९८ ॥ नरकेष्वपि कुम्भीषु, पाकच्छेद भिदादिकम् । परहस्तगतः सेहे, किं दुःखं देवि ! संयमे ॥ १९९ ॥ कुमर्त्येष्वपि दौर्गत्यकारावास - वधादिकम् । परहस्तगतः सेहे, किं दुःखं देवि ! संयमे ॥ २०० ॥ आकामनिर्जरैवाभूत्, तत्र जीवस्य दुःखिनः । सम्यग् मोक्षसुखोपायः, संयमः किमु दुःखदः ! ॥ २०१ ॥ इति प्रबुद्धा तद्वाचा, सा प्रोचे नाथ! तन्मया । प्रतिज्ञातं विरक्तस्य या गतिस्ते ममापि सा ॥ २०२ ॥ For Private And Personal Use Only [ नवमा मन्त्रिणस्ते नृपं स्माहुः, प्रियया सह संयमे । सज्जोऽभूस्त्वं परं देव !, राज्यं कस्मै प्रदास्यसि ॥ २०३ ॥ भूपोऽवग् मा भवत्पुत्रस्तावन्मे दैवयोगतः । यस्मै कस्मै तथापीदं राज्यं देयं मया प्रगे ॥ २०४ ॥ चिन्त्यं राजाऽर्हता कस्येत्युक्त्वा तान् व्यसृजन्नृपः । शुद्धाशयधरा पाप, शुद्धान्तं च सुलोचना ॥ २०५ ॥ कृती सुकृतकृत्येषु कृतसायंतनक्रियः । समये शिश्रिये तल्पमसंकल्पमना नृपः || २०६ ॥ प्रमीलायामपि क्ष्मापः, संयमैकमनोरथः । शर्वरीमतिचक्राम, भावयन् भवभावनाम् ॥ २०७ ॥
SR No.020723
Book TitleShridhar Charit Mahakavyam
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Gyanvijay
PublisherChandulal Lakhubhai Parikh
Publication Year1951
Total Pages199
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy