SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्ग:] स्वोपक्ष दुर्गपदव्याख्यालहतम् । [१३५ रणक्षुण्णशरीराणां, धीराणां स्वसुधारसैः । उपकर्तुमिव प्राच्यामुदियाय सुधाकरः ॥ ४२२ ॥ विद्ययाऽमृतजीविन्या, विजयः स्वपरानथ ।। कृपयोत्थापयामास, शूरान् समरमूञ्छितान् ॥ ४२३ ॥ खेचरेन्द्रस्तदा दध्यौ, श्रुत्वा सज्ज स्थगीभृतम् । शक्त्याऽपि नारीसंहारः, किमाधारस्ततो मम ? ॥ ४२४ ।। तत्पूर्वाराधितं कुर्वे, शरणं चमरासुरम् । निश्चित्येति चिरं रात्रौ, स्थिरध्यानस्तमस्मरत् ॥ ४२५ ॥ पीठाकम्पात्तमायातमयं प्राञ्जलिरालपत् । शक्तिस्तेऽप्यरिणा साऽस्ता, राहुणेव रविप्रभा ॥ ४२६॥ सान्निध्यं कुरु तत् तात!, शत्रुसंघातघातकृत । तगिरेति प्रपन्नोग्रसमरश्वमरः स्थितः ।। ४२७ ।। उपसि द्विषतोः सैन्यद्वये सझामसादरे। असुरेन्द्रोऽसुरैर्युक्तो, डुढोके योद्धमम्बरे ॥ ४२८ ॥ नानास्त्रधारिणो व्योम्नि, धरणेन्द्रोऽथ वीक्ष्य तान् । दधावे नागकोटीयुक्, सहस्रफणमण्डलः ॥ ४२९ ।। नागानामसुराणां च त्रैलोक्येऽपि भयङ्करम् । रणं वीक्ष्योच्छ्रितभुजो, विजयो घोषणां व्यधात् ॥ ४३०॥ नरो नागोऽसुरो वाऽपि, यो युद्धं कुरुतेऽधुना। सैष बालर्षितीर्थस्य, मान्यामाज्ञां विलुम्पति ॥ ४३१ ॥ तच्छ्रुत्वा मुक्तयुद्धेषु, वीरेषु वसुधावरः । वैरिणे मागधं प्रेष्याजिज्ञपत् रुपयाऽहम् ॥ ४३२ ।। १८ For Private And Personal Use Only
SR No.020723
Book TitleShridhar Charit Mahakavyam
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Gyanvijay
PublisherChandulal Lakhubhai Parikh
Publication Year1951
Total Pages199
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy