SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्रमए-सूत्र अनेषणया अनेन प्रकारेण अनेषणया हेतुभूतया; प्राणभोजनया प्राणिनो रसजादयः भोजने दध्योदनादौ विराध्यन्ते यस्यां प्राभृतिकायां सा प्राणिभोजना तया, बीजभोजनया, हरितभोजनया, पश्चात्कर्मिकया पश्चाद्दानानन्तरं कर्म जलोज्झनादि यस्यां सा पश्चात्कर्मिका तया; पुरः कर्मिकया-पुरः पादौ कर्म यस्यां सा पुरः कर्मिका तया; अदृष्टाहृतया अदृष्टोत्क्षेपनिक्षेपमानीतया उदकसमृष्टाहतया जलसम्बद्धानीतया; रजः संस्कृष्टाहतया; पारिशाटनिकया = परिशाटनं उज्झनं तस्मिन् •भवा पारिशाटनिका तया; 'पारिष्ठापनिकया = परिष्ठापनं प्रदानभाजनगतद्रव्यस्याऽन्यस्मिन् पात्रे उज्झनम् तेन निवृत्ता पारिष्ठापनिकी तया; अथवा परि सर्वैः प्रकारैः स्थापन परिस्थापनमपुनर्ग्रहणतया न्यासः, तेन निवृत्ता पारिष्ठापनिकी तया; अधभाषणभिक्षया = अवभाषणेन विशिष्ट द्रव्य-याचनेन लब्धा भिक्षा अवभाषणभिक्षा तया; यद्-अशनादि उद्गमेन = श्राधाकर्मादिलक्षणेन; उत्पादनया = धान्यादिलक्षणया, एपणया-शकितादिलक्षणया; अपरिशुद्धं परिगृहीतं परिभुक्त वा, यत् न परिष्ठापितम्-कथंचित्परिगृहीतमपि सदोषं भोजनं यन्नोज्झितम्, परिभुक्तमपि च भावतः अपुनः करणादिना प्रकारेण नोज्झितम्, तस्य मिथ्या मम दुष्कृतम् ! (१०) काल प्रतिलेखना-सूत्र प्रतिक्रमामि चतुष्कालं = दिवसरात्रि-प्रथमचरमप्रहरेषु, स्वाध्यायस्य - सूत्रपौरुषील क्षणस्य; अकरणतया अनासेवनतया हेतुभूतया [ यो मया देवसिकोऽतिचारः तस्य इति योगः] उभयकालं प्रथमपश्चिम पौरुषीलक्षणे काले; भाएडोपकरणस्यपात्रवस्त्रादः; अप्रत्युपेक्षणया मूलत एव चक्षुषा अनिरीक्षणया; प्राचार्य हरिभद्र ‘पारिस्थापनिकया' लिखते हैं । For Private And Personal
SR No.020720
Book TitleShraman Sutra
Original Sutra AuthorN/A
AuthorAmarchand Maharaj
PublisherSanmati Gyanpith
Publication Year1951
Total Pages750
LanguageHindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy