SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्राद्धदिन० ॥६८॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्याख्या- 'विहिणा त०' स द्विविधोऽपि श्रावकस्तत्र वसतौ । विधिनेति नैषेधिकीत्रयकरणपूर्वकं प्रविश्य वन्दनकस्थानद्विनवत्यधिकशतसत्यापनक्रमेण वन्दित्वा गुर्वादीन् । श्रुत्वा च गुर्वन्तिके धर्मदेशनां ततञ्च स्वस्थानमागत्य गृहव्यापारान् - स्वकुलोचितव्यवसायान् वक्ष्यमाणकर्मादानकूटक्रयादिदोषपरिहारेण शुद्धान् करोतीति ॥१५५॥ ॥ इति द्वारसप्तकव्याख्या || साम्प्रतं श्रवणद्वारानन्तरं चतुर्दशं व्यवहारशुद्धिद्वारं । तत्र प्रथमं पञ्चदशकर्मादानवर्जनाय द्विसूत्रीमाहलक्खं विसं च लोहं च इंगाल- वणछेयणं । भाडं फोडिं च, वज्जिज्जा दंतसंखवणिज्जयं ॥ १५६ ॥ वज्जे रसकेसवाणिज्जं, तहा जंताण पीलणं । सर- दह-तलायसोस, दवग्गिदावणयं तह ॥१५७ ।। व्याख्या- 'लक्खं विसं०' तत्र लक्खंति लाक्षा मनः शिला- नीली धातकी - टंकणादीनां विक्रयो लाक्षावाणिज्यम्, तद्वर्जयेदिति योगः । 'विसं चे 'ति विषायोऽस्त्रहलयन्त्रहरितालादीनां विक्रयो विषवाणिज्यम् । लोहस्य पृथगुपादानमतिसावद्यहेतुत्वख्यापनार्थम् २ | चशब्दाच्छकटकर्म । तच्च शकटस्य घटनखेटनविक्रयरूपम् ३ | 'इंगाल 'ति | अङ्गारभ्राष्टकुम्भायः स्वर्णकारिता, ठठारत्वेष्टिकापाको चेत्याद्यङ्गारकर्म ४ । वणछेयणंति० छिन्नाछिन्नवनपत्रपुष्पफलविक्रयेण कणदलनादिना च वृत्तिर्वनकर्म ५ । 'भाडिं 'ति शकटोक्षमहिषोष्टखराश्वतरवाजिनां भारस्य वाहनाद् वृत्ति For Private and Personal Use Only सूत्रम् ॥६८॥
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy