SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रम् श्राद्धदिन० ॥१७॥ TPT bodoodoodoodoodoooooooo FACTS व्या०-'थेरी०' स्थविरा कुरुनरेन्द्रश्च सुव्रतो जिनशेखरः सत्यकिर्वासुदेवश्च नारदश्च महायशाः इत्यक्षरार्थः, भावार्थस्तु कथानकेभ्योऽवसेयस्तत्र देवत्वे स्थविरोदाहरणं, यथा "काकन्द्यां दरिद्रिणी काचित् स्थविरा प्रातर्नद्यां धौतपादाद्यङ्गी गृहीतवानेयपुष्पा भोजनार्थं शिरस्थकाष्ठभारा श्रीवीरस्य पूजनैकमानसा समवसरणप्रतोल्यां स्खलिता मृता, जितारि राज्ञा पृष्ट्यागतेन कारितदेहाग्निसंस्कारा, क्व इयं गतेति राज्ञा पृष्टे, प्राप्तसौधर्मकल्पोऽत्रैव धर्मं श्रोतुमागतोऽयम् । महाविदेहे कनकपुरेशः कनकध्वजोऽहिना भेकं, तं कुररेण, तं च अजगरेण गिल्यमानं निरीक्ष्योपनये नियोगिभिर्जनः, ते भूपैः, ते च मृत्युनोपद्रूयमाणाः, इति विमृश्य प्रव्रज्य मुक्ति गमिष्यतीत्यवादीद्वीरः । पूजाविषये कुरुचन्द्रकथा, सा चाप्रतीतत्वान्न तन्यते । इदानीमष्टप्रकारपूजायां सुव्रतोपलक्षिताष्टवणिग्कथा । सा चैवम्-'महाविदेहे पुण्डरीकिण्यां कृतनाट्यविधिस्वभव्याभव्यत्वपृच्छादीनष्टौ देवान तरूपान् वीक्ष्य वरसेनचक्रिणा पृष्टे जिनः प्राह-अमी प्राग् धातकीखण्डे भरते महालयपुरे रुक्मिणीपुत्राः सुव्रतान्ताः २५ पूर्वलक्षान यावदष्टप्रकारजिनार्चा कृत्वा ७ शुक्रे प्राप्तदेवत्वाः अत्रैव विजये नृपत्वं प्राप्य मुक्ति यास्यन्ति इति । ईश्वरतया ख्यातः सत्यकिः आगाम्युत्सर्पिण्यां जिनार्चया कृतया सुव्रतनामैकादशोऽर्हन्निति तस्य कथा । तथा वासुदेवो नवमः कृष्णनामा श्रीनेमिनाथपूजनवन्दनतो द्वादशोऽर्हन्नममनामधेयो भवितेति तच्चरित्रम् । नारदविद्याधरस्तु शाश्वताशाश्वतचैत्योपासनत एकविंशतितमो मल्लनामा तीर्थकरो भविष्यतीति ।।२८।। adbodboooooooooooooooooooooooooooooooo ||१७|| TFT Gooooooooooook For Private and Personal Use Only
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy