SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . सत्रमा श्राद्धदिन० ॥३॥ - T एतच्च ऋद्धिप्राप्तमाश्रित्योक्तम् । इदं तु सर्वसाधारणम्- संपत्तदंसणाई पइदियहं जइजणा सुणेई य । सामायारिं परमं जो खलु तं सावगं बिति ।।१।। अत्र च द्विविधेनाप्यधिकारस्तेषां श्राद्धानां दिनस्य-अहोरात्रस्य, मध्ये इति शेषः, कृत्यं करणीयं 'नमस्कारेण विबोध' इत्यादिकं वक्ष्ये । अनेन चाभिधेयमावेदितम् । कुतः ? 'जिनेन्द्रचन्द्राणां चागमात्' जिनाः- श्रुतावधिमनःपर्यायज्ञानिनस्तेषां विमलकेवलज्ञानपरमैश्वर्यसमन्वितत्वेन प्रधानत्वादिन्द्राः- समान्यकेवलिनस्तेष्वपि सर्वातिशयसम्पत्या चन्द्रवदाह्लादकत्वाज्जिनेन्द्रचन्द्रास्तेषामागमात्-तत्प्रणीतावश्यकोपासकदशादिसिद्धान्तात्समुद्धृत्येति । चशब्दाद् बहुश्रुताशठसमाचीर्णसम्प्रदायाच्च । उपायः प्रस्तुतमेवेदं शास्त्रम् । उपेयं तदर्थपरिज्ञानम् । प्रयोजनं तु प्रेक्षावत्प्रवृत्तिसामर्थ्यगम्यं कर्तृश्रोतृगतानन्तरपरम्परभेदभिन्नं चतुर्विधमपि वाच्यं, तत्र कर्तुरनन्तरं सत्त्वानुग्रहः, परम्परं त्वपवर्गप्राप्तिः, यदुक्तं "सर्वज्ञोक्तोपदेशेन, यः सत्त्वानामनुग्रहम् । करोति दुःखतप्तानां, सः प्राप्नोत्यचिराच्छिवम् ।।१।। श्रोतृणां त्वनन्तरं स्वकृत्याधिगमः, परंपरं तु तेषामपवर्गप्राप्तिः, यदुक्तं वाचकमुख्येन"प्राप्तः स कल्पेष्विन्द्रत्वं वा, सामानिकत्वमन्यद्वा । स्थानमुदारं तत्रानुभूय सौख्यं तदनुरूपम् ।।१।। atooo acchodooooooooooooooooooooobodoodbo0000000000DOC ॥३॥ For Private and Personal Use Only
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy