SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीय उल्लासः । २५ अनिवारितान्नदत्तिः प्रतिदिनमखिलागिनां प्रीत्या॥१४५॥ पदे पदे याचितारोऽयाचितारश्च सत्कृताः । द्रव्यकोटीरलभत तदैकैकोऽपि मार्गणः ॥ १४६ ॥ गजरथतुरगाणां स्वर्णभूषान्विताना मददत स शतानि प्रीतिमान् याचकेभ्यः । धनवसनसुवर्ण श्वेतसद्रत्नभूषा दिकमपरमनिन्धं लक्षकोटिप्रमं च ॥ १४७ ।। विररामाऽगर्जत्सन् दानासारान्न कर्मपर्जन्यः । याचकचातकलोको वितृष्ण आजीवितं जातः ॥ १४८ ॥ कार्पितधनजातं कियदादातुं वनीपकाः सेकुः । बहुरूपिणी च विद्यां विधि ययाचुस्तदा केऽपि ॥१४९॥ कं विहाय स्थितः कल्पः कर्मदानविनिर्जितः । बलिः स्वरविपर्यासमभजन हीतमानसः ॥ १५० ।। कर्मस्य काऽपि विकृतिर्न वचननयनाननेषु सञ्जाता। याचककोटीक्षणतः प्रसन्नततेषु वृद्धिमगात् ॥ १५१॥ यद्वाच्यं वक्तृभिस्तद्हृदि विमलतरेऽसौ विशेषेण जोनन् तेभ्यः शुश्राव सम्यक् तृषित इव तपणादत्तचित्तः । तानिच्छातीनदानैः प्रियतमवचनहष्टचित्तान्विधाय प्रैषीद्गम्भीरिमाऽहो ! जगति च वचनातीतमौदार्यमस्य॥१५२ वैदग्धेन निजेन पण्डितजनेऽवज्ञा परां नाटय त्येके स्वं त्वपलापयन्ति च भृशं शाठ्यं समातन्वते । किन्तु श्रीकरमोऽर्थिसात्कृतरमोऽयं मार्गणाक्षोहिणी १ विरराम दानसमरे न कर्मशूरो दरिद्रघाटीभ्यः । ता अनिहत्य स्वशरैरविमोच्य च तद्हीतवन्यालीः ॥४७॥ इति पाठान्तरे । २ 'अपरे' अध्याहारः । For Private and Personal Use Only
SR No.020705
Book TitleShatrunjay Mahatirthoddhar Prabandh
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages118
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy