SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir शत्रुञ्जय कल्पवृ. SESESSSSSSSSESEE दध्यौ सोमोऽधुना कत्तं युद्धं मे नारिणोचितम् । यतो विघटितं सर्व बलं दुष्कर्मयोगतः ॥८॥ विमृश्येति तदा सर्व बलं विमुच्य वेगतः । पत्नीयुक्तो रहो रात्री निःससार पुराद् बहिः ॥९॥ मार्गे तस्य महीशस्य पुत्रोऽसावि सुतो वरः । तस्य नाम ददौ देव-कुमारेति पिता तदा ।। १० ।। चन्द्रपुर्यन्तिके चन्द्राऽऽचार्योपान्ते स भूपतिः । धर्म श्रोतुमुपाविष्टः प्रणम्य गेहिनीयुतः ॥११॥ * पूआ जिणिदेसु रुई वएसु, जत्तो असामाइअ पोस हेसु । दाणं सुपत्ते सवणं च सुत्ते सुसाहुसेवा सिवलोअमग्गो * नाणं नियमग्गहणं नवकारो नयरुई य निट्ठा य । पंच नयविभूसिआणं न पयारो तस्स संसारे ॥ १३॥क * के रोगा कानि कष्टानि कानि पापानि भूतले । पुरतः पुण्डरीकाक्रेस्तमांसीव विवस्वतः ॥१४॥॥ राजाऽप्राक्षीद् गतं राज्यं वलिष्यति कथं मम ? । गुरवो जगदुर्गच्छ तीर्थे शत्रुञ्जयाभिधे ॥१५॥ तत्र श्रीशान्तिनाथस्य पूजां कृत्वा वरैः सुमैः । षष्टं तपः सदा कार्य भवता मेदिनीपते ! ॥१६॥ श्रुत्वैतन्नृपतिः शत्रञ्जये गत्वा निरन्तरम् । गुरूदितं तपः कुर्वन् ध्यायति प्रभुमन्वहम् ॥१७॥ तत्र तुष्टेन गरुड-यक्षेण शान्तिसेविना । शतावर्त महाचक्रं दत्त्वा तस्मै च जल्पितम् ॥१८॥ लात्वा करे शतावर्त चक्रं गच्छ निजे पुरे । यस्ते नाज्ञां तु मन्येत तस्य कृन्तति मस्तकम् ॥ १९ ॥ लात्वा भूपः शतावर्त-मायान्तं तं महीपतिम् । श्रुत्वा वैरी भियाऽभ्येत्य सन्मुखं प्राणमन्मुदा ॥२०॥ 2552SSZESTSESESSESTSEE ॥५७॥ For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy