SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir शत्रुजय कल्पव० 1 ५२६॥ अनादृत्य भवन्तीं तु साधुभ्यामन्नमादरात् । अदिताथ न तेनैव रुचिरा विधते ननु ॥६४५ ॥ . तदाऽम्बिका भिया कम्प-माना श्वश्रू समीपतः । कृष्णपक्षेन्दुवत् काश्यं बभारानघमानसा ॥ ६४६ ॥ इतः सोमो द्विजान् प्रेत-कृत्यायाऽऽनीतवान् गृहे । पत्नीकृत्यं निशम्याथ तर्जयामास तां प्रियाम् ॥ ६४७ ॥ अम्बिका तर्जिता पत्या श्वश्रा च दूनचेतसा । लात्वा शुभंकरं विभुं-करं मूनुद्वयं तदा ॥ ६४८ ॥ तौ मुनी मानसेऽत्यन्तं स्मरन्ती नेमिनं जिनम् । चचाल रैवतक्षोणी-धरस्य दिशि वेगतः ॥ ६४९ ॥ युग्मम् ॥ मार्गे यान्त्यम्बिका खिन्ना बुभुक्षापिडितौ सुतौ । दर्श दर्श रुरोदेति जल्पन्ती देवतं प्रति ॥ ६५० ॥ रे दैव ! किं मया चक्रे-ऽपराधस्तेऽधुना किल । येनेदृक्षामहं नीताऽवस्थां पुत्रयुता त्वया ॥६५१॥ साधुभ्यां शुद्धमाहारो मया मुक्तिप्रदो ददे । पापं न विहित किञ्चित् किन्तु धर्मः कृतः किल ।। ६५२ ॥ एवं कृते मया पुण्ये साधुदानेन ते किल । यत्ते समे न चित्ते तत् कुरु त्वमपि साम्प्रतम् ॥ ६५३ ॥ जल्पन्त्या इति तस्यास्तु सरो वर्याम्बुपूरितम् । फलिताम्रतरूद्धासि समागाद् दृष्टिगोचरे ॥ ६५४ ॥ एकं पुत्रं कटौ धृत्वा कृत्वाऽन्यं पाणिनाऽन्तिके । अम्बिका त्वरित कान्त-भीता चचाल कानने ॥ ६५५ ॥ पाययित्वा पयः पुत्रौ सरस्याम्रमहीरुहात् । गृहीत्वाऽऽम्रलताद्वन्द्वं पुत्राभ्यामम्बिका ददौ ॥ ६५६ ॥ - पुण्यप्रभावतोऽरण्य-मभूदानलतोदयम् । ध्यायन्ती हृदयेऽचाली-दम्बिका नेमिनं जिनम् ॥ ६५७ ।। SESLE25252 जनाSSSESS ॥ ५२६॥ For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy