SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शत्रुञ्जय कल्पवृ० ॥ ५१७ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्यदा केशवो नेमि युक्तोऽन्तःपुरसंयुतः । दीर्घिकायां जलक्रीडां विधातुं प्राविशत्तमाम् ॥ ५५३ ॥ कृष्णेन प्रेषिता गोप्यो नेमेरुद्वाहहेतवे । जलोच्छलनदम्भेना-छोटयन् देवरं भृशम् ॥ ५५४ || चञ्चत् कुङ्कुमपिण्डेन निजघान हरेरुरः । काचित् कृष्णं जलक्षेपाद् व्याकुलं कुरुतेतराम् ॥ ५५५ ॥ भो देवर ! जलक्रीडां क्रियतां हरिवल्लभाः । जल्पन्तीति जलक्षेपा- न्नेमिनं व्याकुलं व्यधुः || ५५६ ॥ गोपीनां बहुभिहाव-भावैर्लोचनकूणितैः । न विकारमगान् नेमि चित्तं मेरुरिवानिलैः ॥ ५५७ ॥ निर्गत्य जलतो गोप्यः सुमनोमुकुटादिभिः । भूपयन्त्यो हरिं नेमिं भूषयामासुरादरात् ॥ ५५८ ॥ हास्यं रसं वितन्वन्त्यो गोप्यो भामादयो जगुः । भो नेमे ! कुरु कन्यायाः सग्रहं सुखहेतवे ॥ ५५९ ॥ पुरुषः शोभते नार्या नरेण तु नितम्बिनी । भाति भूपोऽनुगैभूपै राजन्ते सेवकाः पुनः ॥ ५६० ॥ किं नेमे ! प्रियया रिक्तो लब्धं देहमिदं किल । विश्ववंद्य ! त्वमेकाकी हा ! हा ! हारयसि वृथा ।। ५६१ ॥ स्युः षोडश सहस्राणि स्त्रीणां भ्रातुर्हरेस्तव । एकस्या योषितोऽपि त्वं निर्वाह किं करोपि न १ ॥ ५६२ ॥ जग जाम्बुवती भामे ! देवरोऽयं नपुंसकः । विद्यते तेन न स्त्रीणां सङ्ग्रहं कुरुते मनाग् ॥ ५६३ || भामाsar नाभिपुत्राद्या जिना: कृतपरिग्रहाः । शिवं ययुरतः स्थान-मधिकं किं समीहसे ? ॥ ५६४ ॥ नेमिः प्राह कर्नी योग्यां लप्स्ये तदा वृणोमि ताम् । भामा प्रोवाच ते योग्यां कन्यामत्रानयाम्यहम् ॥ ५६५ ॥ For Private and Personal Use Only 1725252525525 ॥ ५१७ ॥
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy