SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir शत्रुञ्जय कल्पवृ० ESESETTSST52SSPSSCSC नमन्तं नेमिनं बाल-कुमारं वीरविक्रमम् । वीक्ष्य ब्रीडावनम्रोऽभूद् भूमि पश्यन् जनार्दनः ॥५३० ॥ क्षणात् कृष्णो जगौ भ्रात-र्गत्वा त्वमायुधालये । शङ्घस्य वादनं बाढं व्यधात् तच्च वरं कृतम् ॥ ५३१ ॥ चक्रासिभ्रामणं चाप-ताडनं विहितं हि यत् । भवता तदपीदानी वरं बालत्वभावतः ॥ ५३२ ॥ कदाचिद् हस्ततश्चक्रं भ्रमत्पतति मस्तके । तदाऽकस्माद्भवत्येव मृतिर्वा तेऽङ्गभञ्जनम् ।। ५३३ ।। तेन नैवंविधा क्रीडा क्रियते बालभावतः । त्वं विज्ञोऽसि ततः शिक्षा दीयतेऽस्माभिरत्र किम् ? ॥ ५३४ ॥ शङ्खादिपूरणं क्लेश-कारकं दुःखदायकम् । विद्यतेऽतो मया तेऽग्रे कथ्यते मृदुवाक पुनः ॥५३५ ।। नेमिर्जगौ त्वया कृष्ण ज्येष्ठभ्रात्रात्र शिक्षणम् । जल्प्यते तद्वरं भ्रातु-लवोहितकृते भवेत् ।। ५३६ ॥ श्रुत्वैतच्चकितः कृष्णो द्रष्टुं नेमिवलं जगौ । मया तेंडसे शयो न्यस्तः सद्यस्त्वं वालयाऽधुना ।। ५३७ ॥ नेमिः सुलीलया कृष्ण-शयं कमलनालवत् । अवालयत् ततः कृष्णः प्राहेति नेमिनं प्रति ॥ ५३८ ।। । स्वस्कंधे स्वशयं बाढं स्थापय त्वं तु लीलया । वालयिष्याम्यहं श्रीश-प्रोक्तं नेमिस्ततो व्यधात् ॥५३९ ॥ मुकुन्दो वालयन्नेमि-हस्तं न बलतो यदा । तदा दोषि प्रभोः शाखा-लग्नकीर इवाभवत् ॥५४०॥ नेम्यंसतरुशाखायां कृष्णो हिण्डोलिते सति । हरिहिण्डोलितः ख्याति-रिति जाता तदा जने ॥५४१ ।। नेमेस्तादृग् बलं दृष्ट्वा विखिन्ने केशवे सति । बलभद्रो जगौ कृष्ण ! त्वं विषादं कुरुष्व मा ।।५४२ ॥ HPSSSSSSSSSSS For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy