________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुञ्जय कल्पवृ०
॥ ५१२॥
ASSESSESSSSSESSESI
पाटलाह्वां पुरीं वर्या संस्थाप्य पञ्च पाण्डवाः । स्वकारिते जिनागारे-ऽतिष्ठिपन्नेमिनायकम् ॥५०॥ पुरं पश्चासुरं पञ्च सुराः संस्थाप्य हर्षिताः । प्रासादान कारयामासुः पञ्च कैलाससोदरान् ॥५०१ ॥ तेषां पार्वमहावीर-शान्तिनेम्यादिबोधिदान् । अस्थापयन् सुरास्ते तु भूयिष्ठकमलाव्ययात् ॥५०२।। कुमाराह पुरं राज-कुमाराः कमलाव्ययात् । स्थापयित्वा जिनागारे नेमिनाथमतिष्ठिपन् ॥५०३ ॥ पुरी छत्रपतीत्याह्वां स्थापयित्वा शुभेऽहनि । नृपाश्छत्रधराः स्फारं जिनागारमकारयत् ॥ ५०४ ।। तत्र श्रीशान्तिनाथस्य प्रतिमां बहुरैव्ययात् । कुमाराः स्थापयामासुः पूजयामासुरादरात् ॥ ५०५॥ येषां यत्राभवद्राज-धानी पूर्वमहीभुजाम् । कृष्णस्तेभ्यस्सुतेभ्यस्तां ददौ सन्मानपूर्वकम् ॥५०६॥ चक्रानुगोऽथ कंसारि-भूरिभूपनिपेवितः । चचाल भरतार्द्ध तु सद्यः साधयितुं ध्रुवम् ॥ ५०७ ।। भरतार्द्धस्थितान् भूपान् मासैः पइभिर्मुरारिणा । विजित्यो, कोटिशिलां दधे च चतुरगुलम् ॥ ५०८ ॥ यतः -“वामभूयंगे पढमेण धारिआ सरीरेण बीएण । तइएण कंठदेसे नेइ चउत्थो अवच्छअले ॥१॥ पंचमओ पुण हियए छट्ठो पावेइ कडियल पएसं । सत्तमओ जा उरुजो जाणु नेइ अट्ठमओ ॥२॥ एएण नवमहरिणा एसा चउरंगुलं समु क्खिता । उच्चत्तवित्थरेण पत्ते जोअणपमाणं ॥३॥" षोडशप्रमित राज्ञां सहस्रैः सेवितः क्रमात् । कृष्णोऽलङ्कृतवान द्वारवती विलसदुत्सवम् ॥५०९॥
SE252SSESESESSISSISSES
For Private and Personal Use Only