SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शत्रुज्जय कल्पवृ० ॥ ५१० ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तदद्यापि महातीर्थे श्रीमच्छवेश्वराभिधम् । विभानि निजभक्तानां हन्ति ध्यानार्थनादिभिः ॥ ४७५ ॥ अथ सन्नह्य मगध-नाथो हन्तुं द्विषद्धलम् । समेत उत्थितान् शत्रून् वीक्ष्येति ध्यातवान् हृदि ॥ ४७६ ॥ मया दत्ता जरा ह्येषां केनाथोसारिता लघु । पार्श्वस्नात्राम्बुनोत्तीर्णां ज्ञात्वा मगधभूभुजा ॥ ४७७ ॥ नभोमण्डपमा तन्वन् रविमाच्छादयन् समम् । जरासन्धो व्यधाद्वाण - वृष्टि पाथोदवत्तदा ॥ ४७८ ॥ एकदा मगधाधीशे सम्पूर्णानुगसंयुते । कुर्वाणे सङ्गरे शत्रु संहारकारकं भृशम् ॥ ४७९ ॥ इन्द्रदत्तरथारूढो नेमि-र्लक्षमितद्विषाम् । परितो भ्रामयामास तथा स्वं स्यन्दनं दृढम् ॥ ४८० ॥ युग्मम् ॥ यथा निगडसन्नद्धा इवासंस्ते द्विपोऽखिलाः । स्तम्भिता इव ते तत्र दृश्यन्ते नरनिर्जरैः ॥ ४८१ ॥ निवृत्तेऽथ रणे ते तु मुस्कलाः प्रभुणा कृताः । कम्पमाना द्विपो नेमुः प्रभुपादाम्बुजद्वयम् ॥। ४८२ ।। बलभद्रोऽथ शत्रुघ्नं मुशलेन रणाङ्गणे । चूर्णयन् विदधेऽकस्मात् प्रलयानेहसं तदा ॥ ४८३ ॥ पश्चापि पाण्डवाः स्वस्व-शस्त्रैः शत्रून् प्रयुध्यतः । अतिथीन् विदधे प्रेत- पतेः प्राणापहारतः ॥ ४८४ ॥ जरासन्धः शये शक्रं स्फुरद् वह्निकणान्वितम् | लात्वा जगाद भो गोप ! मुञ्च मानं च मां श्रय ॥। ४८५ ।। जीवन् भद्रमवाप्नोति जीवन पश्यति मेदिनीम् । जीवन् करोति पुण्यानि जीवन् पासि निजं पुरम् ॥ ४८६ ॥ ये त्वं न मे पादौ तदा चक्रमिदं द्रुतम् । कृष्ण ! भेत्स्यति ते मौलिं पयोजनालवद् द्रुतम् ॥ ४८७ ॥ For Private and Personal Use Only FR5425252525252525252525 ॥ ५१० ॥
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy