SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir शत्रुञ्जय कल्पवृ० ॥ ५०४॥ SESESE SESESTISSOSTI तादृग् विनयगर्भेण वचसा श्रीणितो भृशम् । शाम्ब पितामहस्तत्र प्रशशंस लसगिरा ॥ ३९८ ॥ यादवानां कुमारास्तु प्रद्युम्नप्रमुखा वराः । पाण्डुभूपसुतैः साई रंरम्यन्त मुदा तदा ॥३९९ ॥ इनश्च यवनद्वीपाद् वणिजो रत्नकम्बलान् । विक्रीणन्तः पुरे पुर्या द्वारबत्यां समाययुः ॥४०० ॥ सपादलक्षद्रव्येण तत्रैक रत्नकम्बलम् । विक्रीणतोऽन्यदा तेषु वणिजः शुश्रुवुधुवम् ॥ ४०१॥ पुरे राजगृहे रत्न-कम्बलं ह्येक किल । द्विलक्ष्या लभ्यते नैव प्राप्यते स्तोक एव सः ॥४०२॥ बणिजस्ते ततो रत्न-कम्बलान् निखिलानपि । लात्वा राजगृहे जग्मु-र्मगधादेशभूपतेः ॥ ४०३ ॥ विक्रीणन्तः क्रमात्पुर्या जरासन्धमहीपतेः । गेहोपान्ते ययुर्यावद् वणिजस्ते च तावता ॥४०४॥ जरासन्धमहीपाल-पुत्री जीवयशाः खलु । वणिजः सन्निधौ याता गृहीतुं रत्नकम्बलान् ॥४०५॥ अल्पमूल्येन सा मार्ग-यन्ती जीवयशास्तदा । वणिभिर्जगदे पुण्य-वत्येवं किं प्रजल्प्यते ? ॥४०६ ॥ द्वारकापुरीमध्ये एते च रत्नकम्बलाः । विक्रीता द्विद्विलक्ष्या तु कथं त्वमिति मार्गय ? ॥४०७॥ अतस्तन्नगरं वर्य विद्यतेऽतः पुरा ननु । ततो जीवयशाः प्राह कुत्रास्ति सा पुरी वरा ? ॥४०८ ॥ वणिजो जगदुः स्फुटं पश्चिमाम्भोधिसन्निधौ । विद्यते द्वारका नाम्ना पुरी स्वर्गपुरीसमा ॥४०९ ॥ तत्र यादववंशीयः कृष्णो नाम महीपतिः । पपाल जनता न्याय-मार्गेण शक्रविक्रमः ॥४१०॥ SESSSTSEIZGESSSSS25 Tu॥ ५०४॥ For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy