________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुजय 0 कल्पवृ०
॥४९
॥
SESZSE2525252
प्रद्युम्नो नारदं नत्वो-पविश्य यावदग्रतः । तावद् ऋषि गौ कृष्ण-रुक्मिण्योनन्दनोऽसि भोः ! ॥ २७२ ॥ केशदानादिसम्बन्धस्तव भानोश्च जन्मनि । रुक्मिणीसत्यभामाभ्यां कृतोऽस्ति कृष्णनन्दन ! ॥ २७३ ।। यदि त्वं नाधुना तत्र गत्वाऽम्बां पाग प्रमोदय । तदा वालप्रदानेन मृत्युर्मातुर्भविष्यति ॥ २७४॥ प्रज्ञप्त्या विद्यया वर्य-विमाने रचिते तदा । उपविश्याऽचलत् कृष्ण-सू नुन रदसंयुतः ॥ २७५ ॥ पश्यन् पदे पदे ग्राम-नगराणि बहून्यपि । द्वारिकानगरीपार्श्वे कानने समुपागमत् ॥ २७६ ॥ तदोत्तरकुरुभागे कन्यां दुर्योधनो नृपः । दातुं भानुकुमाराया गत्याऽस्थात् स्वीयपत्तनात् ।। २७७ ।। विवाह्यां कन्यकां हत्वा प्रद्युम्नो नारदान्तिके । बहिर्यानेऽमुचद् विद्या-बलाददृश्यरूपभृत् ॥ २७८ ॥ कृष्णोद्यानं ततश्चक्रे फलपुष्पच्युतं स च । अशोषयच्च पानीय-स्थानानिनिखिलान्यपि ॥ २७९ ।। यज्ञयात्राश्वमातङ्ग-गवां भक्षणहेतवे । यस्तृणौधः कृतस्तं चा-ऽदृश्यीचक्रे स कृष्णभूः ॥ २८० ।। विद्यया सार्थपो भूत्वा प्रद्युम्नो वाहयन् हयम् । दृष्टो भानुकुमारेण ततस्तत्रागमत् स च ॥ २८१ ।। लातुं मूल्यात् हयं भानु-र्वाहयन् पातितो भुवि । प्रद्युम्नविद्यया सर्वं ईस्यमानः पुरीं ययौ ।। २८२ ॥ प्रद्युम्नः प्रपठन् वेदं गच्छन् वाडववेषभृत् । भामायाः कुजिकां दासीं सरलां विदधेतराम् ।। २८३ ।। दासीपार्श्वे तु भोज्यं च मायी विप्रोऽर्थयन् बहु । दास्या स्वस्वामिनी पार्श्वे नीतोऽन्यासि तयाऽऽसने ॥२८४॥
SESESZSSESESESSISSESSE
॥४९४॥
For Private and Personal Use Only