SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir शत्रुञ्जय कल्पवृ० ॥४९२॥ SSSSSSSSSSESI त्वयोच्यं सर्वलोकानां पुर एव स्फुटाक्षरम् । मयाऽसावि सुतो गूढगर्भयाऽद्य शुभेऽहनि ॥ २४९ ।। जल्पन्तीति पतिप्रोक्तं लोकानां पुरतस्तदा । पपाल तं सुतं स्तन्य-पानदानात् प्रमोदिता ॥ २५० ॥ प्रद्युम्नाहां धरन् पुत्रः पोष्यमाणो दिने दिने । मातापित्रोर्ददौ मोदं वारिधेरिव चन्द्रमाः ॥ २५१ ॥ इतोऽकस्माद् हृतं पुत्रं विज्ञाय रुविमणी हृदि । दुःखिताऽभूद् भृश शश्वत् रुदन्ती करुणं-स्वरम् ॥ २५२ ॥ तदैत्य कृष्ण आचष्ट शोको नैव विधीयते । पूर्वाजिताधपुण्यानां वियोगो न हि जायते ॥ २५३ ।। * यतः-" यदुपात्तमन्यजन्मनि शुभमशुभं कर्मपरिणत्या । तच्छक्यमन्यथा नैव कत्तुं देवाऽसुरैरपि ॥२५४॥ * आरोहतुगिरिशिखरं समुद्रमल्लङ्घन्य यातु पातालम् । विधिलिखिताऽक्षरमालं फलति कपालं न भूपालम् ॥२५५॥ श्रुत्वैतद् रुक्मिणी पुत्र-वियोगसम्भवं तदा । दुःखं त्यक्त्वा सदा धर्म चकार जिनवरोदितम् ॥ २५६ ॥ इतः सीमन्धरोपान्ते प्रद्युम्नस्य गतं भवम् । निशम्य नारदोऽभ्येत्य कृष्णस्य सन्निधौ जगौ ॥ २५७ ॥ रुक्मिण्या प्राग्भवे ह्येक-मण्डं प्रलिप्य कुंकुमैः । दुःखिनी चटिकां चक्रे पोडशप्रहरावधि ॥ २५८ ॥ तेन पोडशवर्षान्ते रुक्मिण्या नन्दनोऽनघः । मिलिष्यत्यन्यथा नैव प्राक् कृतं कर्म जायते ॥२५९ ।। * यतः -" हसंतो हेलया कर्म ते कुर्वन्ति प्रमादिनः । जन्मान्तरशतैरेते शोचन्तेऽनुभवन्ति तत् ॥१॥” इतो निःशेषशास्त्रार्थ-विदुरं मदनोपमम् । प्रद्युम्नं वीक्ष्य रागान्धा-ऽभवत् खगप्रिया भृशम् ॥ २६ ॥ S2S2SSZESESSES2S2SSSS ५९२॥ For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy