SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir ami शत्रुञ्जय कल्पवृ० ॥४८८॥ ESESESTSESTSESE! तृतीयनिशि पाथोधि-देवोऽभ्येत्य जगौ हरिम् । स्मृतोऽहं भवता कस्मै हेतवे वद माधव ! ॥१९८ ॥ कृष्णोऽवग् नगरी स्फारां कारयित्वाऽम्बुधेस्तटे । आवासान् विपुलान् वास-हेतोर्वः कुरु साम्प्रतम् ॥ १९९ ॥ द्वादशयोजनायामां नवयोजनविस्तृताम् । रैरत्नवप्र-संयुक्तां पुरी स धनदो व्यधात् ॥२०॥ तत्रैकद्वित्रिकादींश्च भोमान् सप्तान्तिकान् वरान् । आलयान् धनदश्चक्रे जिनचैत्याननेकशः ॥२०१॥ तस्या द्वारवतीत्याह्वां प्रददौ धनदो यदा । तदैव यादवाः सर्वे तत्र वासं व्यधुर्मुदा ॥२०२ ॥ पाश्चजन्याभिधं शङ्ख हरायाऽदात्तदा सुरः । रामाय च सुघोषं तु रत्नमाल्याम्बराणि च ॥ २०३ ॥ कुबेरो हरये पीत-वाससी कौस्तुभं मणिम् ! शाङ्ग चापं वरं खड्गं नन्दनाई प्रदत्तवान् ॥ २०४॥ गदा कौमोदकी वयं स्यन्दनं गरुडध्वजम् । धनदः प्रददौ कंस-द्विषे सन्मानपूर्वकम् ॥ २०५॥ वनमालां हरेस्ताल-ध्वजं नीलाम्बरे हलम् । रामाय प्रददौ सद्यो धनदो रुचिरोत्सवम् ।। २०६ ॥ अरिष्टनेमये ग्रीवा-ऽऽभरणं बाहुरक्षकम् । हारं त्रैलोक्यविजयं चन्द्रसूर्याख्यकुण्डले ॥ . गङ्गातरङ्गविशदे वाससि विमले वरे । सर्वतेजोमय रत्न-मप्यदाद् धनदो मुदा ॥ २०७ ।। मिलित्वा यादवैः सर्वैः धनदाऽऽद्यः सुरैरपि । राज्येऽभिषिषिचे कृष्णो बलभद्रसमन्वितः ॥ २०८ ॥ नेमिर्दशधनुर्दे हः क्रमात् प्राप्य च यौवनम् । निर्विकारः स्वरूपेण जिगाय स्मरवैभवम् ।। २०९ ॥ SP525SCESESSES25252SESS imoniamami ॥४८८॥ For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy