SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir शत्रजय कल्पवृ० SPESCLUS2E25PPSIC वसुदेवस्तदा दध्यौ यद्येवं सोदरो व्यधात् । तदा मयाऽत्र न स्थेयं गन्तव्यं दूरतः क्वचित् ॥७१॥ । यदि दूरं व्रजन्तं मां ज्ञास्यते च सहोदरः । तदा यातुं न दास्येत भ्रात्रा मम मनागपि ॥ ७२ ।। तेन छन्नमहं यामी-ति ध्यात्वा वसुनिर्जरः । पुर्या बहिश्चितां चक्रे रात्रौ रहसि दारुभिः ॥७३॥ तन्मध्ये मृतकं क्षिप्त्वा दत्त्वा वह्निं च गोपुरे । अक्षराणि लिलेखेति वसुः स्वाङ्गासृजा तदा ॥७४ ।। वसुदेवश्चितामध्ये प्रविश्य मृतिमीयिवान् । तेनान्यत्र विलोक्योऽहं न कुत्रापि सहोदरः ॥७५ ॥ पत्तने च पुरे ग्रामे वैताढये विपुले गिरौ । खग-भूमिधवादीनां कन्यकानां सहस्रशः ॥ ७६ ॥ स्वकलादर्शनात् रूप-सौभाग्याभ्यां वसुः सुरः । तदीयमातृपितृभ्यां दत्ताश्च परिणीतवान् ॥ ७७ ॥ युग्मम् ॥ रोहणक्षोणिभुग पुत्र्या रोहिण्याः सत् स्वयंवरे । भूपानाकारयामास भूरीनुद्वाहहेतवे ॥ ७८ ॥ भूयःसु भूधवेष्वेव वाञ्छत्सु रोहिणी तदा । परिणीयामिलद् भ्रातु-ज्येष्ठस्य वसुनिर्जरः ॥ ७९ ॥ हलभृज्जन्मकथकान् सुस्वप्नांश्चतुरो निशि । निरीक्ष्याऽसावि रोहिण्या शोभने, वासरेऽन्यदा ॥ ८० ।। जन्मोत्सवं पिता कृत्वा मूनोः सज्जनसाक्षिकम् । बलभद्रेति नामाऽदात् जनाल्हादकरं मुदा ।। ८१॥ कंसोपरोधतोऽन्येयु-देवकक्ष्मापनन्दिनीम् । देवकी वसुगीर्वाणः परिणिन्ये सदुत्सवम् ।। ८२॥ तस्मिन् क्षणे जरासन्ध-पुत्री कंसस्य गेहिनी । मद्यं जीवयशाः पीत्वा ग्रहिलाऽभूत् सखीयुता ॥ ८३ ।। SESESSCSESZS22552SSES ॥४७८॥ For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy