SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsun Gyanmandie LU शत्रुजय कल्पवृ० ॥४६ ॥ BSESESTSESESESTSEPTSZS तत्र रत्नपुरे यत्र यत्र गेहे च गेहिनः । रामो याति तदा ते तु पक्वान्नं ददते जनाः ॥१६१०॥ अतीवादरतोऽशुद्धमाहारं राषको यतिः । ज्ञात्वेत्यनिग्रहं घोरं जग्राह शिवहेतवे ॥१६११॥ यदाऽटव्यां ममाहारः शुद्धो हस्ते चटिष्यति । भोक्तव्यं मयका तस्मिन् दिनेऽन्यस्मिन् मनाग् न हि ॥१६१२॥ कदाचिद् वासरे तस्मिन् कदाचिदपरे पुनः । कदाचित् सप्तमे पष्ठे मासे मासद्वये पुनः ॥१६१३ ॥ भिक्षां शुद्धामटव्यां तु लभमानश्च राघवः । चकार पारणं घोरं संसाराम्बुधितारणम् ॥१६१४ ॥ एकदा श्रीपुरेशस्य मधुभूमिपतेर्वने । जिमतः शुद्धमाहारं प्रापद् रामो यतियदा ॥१६१५ ॥ तदा देवैः समागत्य वृष्टिः कुसुमरत्नयोः । विदधे भूपतेरग्रे रामस्तिष्ठतः सतः ॥१६१६ ॥ रामे कोटिशिलायां तु तस्थुषि ध्यानतत्परे । प्रतिकूलानुकूलाश्चो-पसर्गा विहिताः सुरैः ।। १६१७ ।। माघस्य शुद्धपक्षे तु द्वादश दिवसात्यये । पश्चिमे प्रहरे चन्द्रे भरणीभस्थितेऽन्यदा ॥१६१८॥ क्षपकश्रेणिकारूढः रामः क्षिपस्तमश्चयम् । अवाप केवलज्ञानं विश्वविश्वप्रकाशकम् ॥१६१९ ॥ युग्मम् ॥ तदाऽभ्येत्य सुरा दाश-रथेः केवलचिन्महः । चक्रुर्विविधवाद्यादि-सुन्दरं मुदिताशयाः ॥१६२० ॥ रामस्य केवलज्ञानोत्पति ज्ञात्वाऽवधेश्चिदः । स्वर्गात् सीतेन्द्र आगत्य चक्रे चारु महोत्सवम् ॥ १६२१ ॥ त्वयाऽद्य कर्मसखातं क्षिप्त्वा तीव्रतपोऽसिना । प्राप्त ज्ञानमिति स्तौति सीतेन्द्रो मुदिताशयः ॥१६२२ ॥ L ITISTESSES ॥४६॥ For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy