SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir शत्रुजय कल्पवृ० STATISZTSZT5151 ॥४३९॥ मम गोः प्राग्भवे शीत-तृषार्तिततनोभृशम् । म्रियतः प्रददौ पश्चनमस्कारं नृपागभूः ॥१३८४ ।। नमस्कारप्रभावेन मम राजकुले जनुः । अभूदतः करिष्येऽह-मत्र श्रीजिनमन्दिरम् ॥ १३८५ ।। कारयित्वा जिनागारं तत्र वृद्धककुद्मतः । रूपं कुमारसंयुक्त-मचीकरत नृपाङ्गजः ॥१३८६ ।। राजपुत्रो जगौ भृत्यान् योऽत्रैत्य मानवो ननु । चिरं तिष्ठति वक्तव्यं तदा मे पुरतो द्रुतम् ॥ १३८७ ॥ ततो जिनालये भूरि-जनेषु वन्दनाकृते । आगच्छत्सु समायातः पद्मरुचिर्वणिग्वरः ॥१३८८ ।। नत्वा जिनं नृगोरूपं पश्यन् पद्मरुचिर्यदा । नान्यत्रेति तदा भृत्यै ज्ञापितं नृपसूनवे ॥१३८९ ॥ भूपपुत्रः समागत्य नत्वा पद्मरुचिर्जगौ । नमस्कारप्रदानेन श्रीरीदृग् मे त्वया ददौ ॥ १३९० ॥ वृषभोऽपि नमस्कार-दानाद्राज्यं महत्तमम् । लभितोऽहं त्वयाऽतस्त्वं गुरुः संसारतारकः ॥१३९१ ।। यतः-"तं चिय ण कुणइ माया नेव पिआ णेव बन्धवा सव्वे । जं कुणइ सुप्पसण्णो समाहिमरणस्स दायारो" ॥१३९२ ॥ ततो द्वावपि सर्वज्ञ-गुरुपूजां निरन्तरम् । कुर्वाणौ तिष्ठतः प्रीति-भाजौ परस्परं मुदा ॥१३९३ ॥ क्रमादायुःक्षये पद्म-रुचिश्रीवृषभध्वजौ । मृत्वा स्वर्गे द्वितीये तु सुरौ जातौ लसत्तन् ॥ १३९४ ।। च्युत्वा पद्मरुचिः स्वर्गा-नन्दावर्तपुरे वरे । नन्दीश्वरनृपस्याभूत पुत्रो नयननन्दकः ॥ १३९५ ॥ ASSISLESS25LSPIESSTIS % 3am ॥४३९॥ For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy