SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir शत्रुञ्जय कल्पवृ० ॥४३६॥ SESTSTSESESESZSEITSSSEI हा हा दुष्ट ! कदथितकायैः क्षिप्तं जन्म मुधा व्यवसायैः । काकिण्यार्थे चिन्तारत्नं हारितमेतदकृत्वा यत्नम् ॥१३४६ ॥ H * प्रथमे वयसि यः शान्तः स शान्त इति मे मतिः । धातुषु क्षीयमाणेषु शमः कस्य न जायते ? ॥१३४७ ॥5 * यौवनं धनसम्पत्तिः प्रभुत्वमविवेकिता । एकैकमप्यनर्थाय किं पुनस्तच्चतुष्टयम् । ॥१३४८) तस्मिन्नेव पुरे वर्षे वणिक सागरदत्तकः । अभूत्तस्याभवत्पत्नी रत्नाभाह्वा वराशया ॥१३४९ ।। तयोर्गुणधरः पुत्रोऽभूतां गुणमती सुता । नयदत्तस्य पुत्राय धनदत्ताय शालिने ॥१३५० ॥ ददौ सागरदत्तोऽथ पुत्रीं गुणमती निजाम् । दातुं मिमेल यावत् स सर्वसज्जनसाक्षिकम् ॥१३५१॥ तत्रैव नगरे श्रेष्ठी श्रीकान्तो भूरिभिरम् । रत्नाभायै वितीर्याऽथ रहो गुणमती ललौ ॥ १३५२ ॥ श्रीकान्तेन हतां छन्नं तदा गुणमती कनीम् । विज्ञाय जन्यचक्रोऽवग् वसुदत्तस्य सन्निधौ ॥१३५३ ॥ धनदत्तं गतं ग्रामे-ऽन्यत्र मत्वा तदा रुषा । वसुदत्तो निहन्तुं च श्रीकान्तं निर्गतो निशि ॥१३५४ ॥ वसुदत्तो भ्रमन् बाह्यो-द्याने श्रीकान्तमेश्य च । मुमोचाऽसिं यदा शत्रौ तदा सोऽप्यमुचच्च तम् ॥१३५५ ।। तदा मिथोऽसिघातेन निघ्नन्तौ तौ तु निःकृपम् । मृत्वा विन्ध्याटवीमध्ये मृगौ सद्यो बभूवतुः ॥१३५६॥ मृत्वा गुणमती तत्राटव्यां मृग्यभवत्तदा । मृगी लातुं मृगौ तौ तु युध्यन्तौ मृतिमीयतुः ॥१३५७ ।। SESESESSESESTSESESSISSES For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy