SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir mmmmmmmwww शत्रुजय कल्पवृ० ॥४०७॥ TISSEST222TZITSUKI चतुःसहस्रसङ्खथाकाः संयमं प्रभुणा समम् । लात्वा तपःपराश्चेलु-माद् ग्रामे पुरात् पुरे ॥१०३७ ॥ युग्मम् भिक्षामलभमानास्ते बुभुक्षाबाधिता भृशम् । षण्मासान्तः प्रभु मुक्त्वा बभूवुस्तापसाः पुनः ॥ १०३८ ॥ तरुमूलफलाहाराः शश्वद्वल्कलधारिणः । जटाधरा निजछन्द-चारिणस्तापसाच ते ॥१०३९ ।। गत्वा मरुन्नदीकूले कुर्वाणाः स वनं पुनः । भिक्षां लान्तो गृहस्थेभ्यो निर्वाहं कुर्वते निजम् ॥ १०४० ।। युग्मम् उत्पन्ने स्वामिनो ज्ञाने मरीचिस्तापसः पुनः । व्रतं लात्वा पुनर्भग्नः संयमादजनिष्ट सः ॥ १०४१ ॥ तदा प्रल्हादनक्षोणी-पतेः पातो रमापुरीम् । सूते स्म श्रीप्रिया चन्द्रो-दयनरोदयौ सुतौ ॥१०४२ ।। वैराग्यवासितस्वान्त-स्तदा चन्द्रोदयः सुतः । सूरोदययुतो दीक्षां जग्राह प्रभुणा समम् ॥१०४३ ॥ भग्नौ वृत्तात् क्रमाच्छिष्यौ मारिचेश्च तपस्विनः । भूत्वा मृत्वा भवान् भूरीन् भ्रमतः स्म तपस्विनौ ॥ १०४४ ॥ अथ चन्द्रोदयो नाग पुरे हरिमतेः खलु । प्रल्हादनाप्रियाजातोऽभवत् कुलकरो नृपः ॥१०४५ ॥ सूरोदयोपि तस्मिंस्तत्-पुरे विश्वभवात्मजः । विप्रोऽग्निकुण्डिका-जातो नाम्ना शुचिरतोऽजनि ।।१०४६ ॥ कुलङ्करो नृपोन्येद्य-स्तापसोपास्तये वजन् । अभिचन्द्र मुनि मार्गे वीक्ष्याऽनंसीचदा मुदा ॥१०४७॥ तदा धर्माशिषं दत्त्वा ज्ञात्वा तं भद्रकात्मजम् । कुलङ्करं प्रति प्राह प्रबोधाय मुनीश्वरः ॥ १०४८ ॥ यत्र त्वं तापसं नन्तुं यासि तत्राऽस्ति दारु यत । तन्मध्ये सर्परूपेण विद्यते ते पितामहः ॥१०४९।। SESSPSSPSS255252STSSES ॥४०७॥ 7 For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy