SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir शत्रुञ्जय कल्पवृ. ॥३७३॥ ASOSES1723ITEITS रामहस्तगतां मुद्रां हनुमत्करसंस्थिताम् । वीक्ष्य सीता पति मृत्यु-गतं ध्यात्वेति चेतसि ॥६५९॥ रुरोदोच्चैः स्वरं कान्त ! कथं मुक्त्वेह मां मृतः । अधुनाऽहं करिष्यामि प्राणत्यागं मृतेस्तव ॥६६०॥ रुदन्ती जानकी पत्युः पञ्चत्वशङ्कया तदा । हनुमान जीवयामास श्रीरामचन्द्रवार्तया ॥६६१ ।। उक्तंच-भर्ता ते मानुजो मातः! कुशली रावणान्तकृत । तद्भूतोऽहं तु हनुमान् पवनाञ्जनयोः सुतः॥१॥ यतः-सुद्धे( मुद्रे )सन्ति सलक्ष्मणाः कुशलिनः श्रीरामपादाः स्वयं, सन्ति स्वामिनि ! मा विधेहि विधुरं चेतोऽनया चिन्तया । एतं व्याहर देवि ! मैथिलिसुते नामान्तरेणाधुना, रामस्त्वद्विरहेण कङ्कणमिदं यद् दापितोऽस्यै चिरात् ॥ ६६२ ।। तव पत्युरहं भृत्यो हनुमा-न्नामतोऽस्मि हि । मां मुद्रासहितं रामो प्रेषीत् ज्ञातुं तव स्थितिम् ॥ ६६३ ॥ श्रुत्वैतद् वचनं सीता हृष्टाऽऽशु व्यरमन्मृतेः । ततः सत्याः पुरो मुद्रां मुक्त्वाऽनंसीन्मरुतसुतः ॥६६४ ॥ सीतोत्थाय नतिं कृत्वा मुद्रिकांतां सुविष्टरे । मुक्त्वार्चित्वा सुमैस्तां चा-नंसीत् पुनः पुनर्मदा ॥ ६६५ ॥ IR॥३७३॥ उक्तंच-" तिष्ठतो दण्डकारण्ये रामलक्ष्मणयोस्तयोः । आदेशादहमत्राऽऽगां राममुद्रासमन्वितः ॥१॥ आकण्येतद् वचः सीता मुद्रां मौलिगतां तदा । कृत्वा मुदं व्यधाद् भूयो भूयोऽनंसीच्च तां पुनः" ॥६६६॥ For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy