SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir शत्रुजय कल्पवृ. ॥३२६॥ J252525CS SESESESSESESES माघशुक्लाष्टमीघस्रे बहवोऽवनिमः खगाः । आकारिताः समाजग्मु-स्तत्र सीतासिहतवे ॥१३१॥ भामण्डलोऽपि सीतायाः पाणिपीडनहेतवे । तस्मिन् समागतोऽनेक-विद्याधरनिषेवितः ॥ १३२॥ चश्चद्विमानमारूढा सुवेषा सुसखीवृता । दिनोदये दिने तस्मिन् सीता मण्डपमागमत् ॥१३३ ॥ राज्ञां वंशावलीः चैवं वर्ण्यमाना सुगायनैः । उत्पाटयितुमुर्वीशा ववाछुर्धनुषी तदा ॥१३४॥ अङ्ग-बङ्ग तिलङ्गादि-भूपास्ते धनुषी तदा । उत्पाटयन्त आश्वाऽऽप्य मूर्छा पेतुश्च भूतले ॥१३५॥ भामण्डलोऽपि ते चापे उत्पाटयन् करे करन् । कम्पमाप्य द्रुतं पश्चात् स्वस्थाने समुपाविशत् ॥ १३६ ॥ उत्थाय लीलया रामो धनुरुत्पाटय चादिमम् । अधिज्यं विदधे चञ्चत्-टणत्कारपुरस्सरम् ॥१३७॥ पुष्पवृष्टौ कृतायां तु सुरैर्जयजयारवम् । सीता चिक्षेप रामस्य कण्ठे बरसुजं तदा ॥ १३८॥ लक्ष्मणेन द्वितीये तु चापे आरोपते सति । उर्मिका कन्यकाऽप्सीत् तस्य कण्ठे बरसृजम् ॥ १३९॥ अष्टादश तदा कन्या लक्ष्मणाय वरात्मने । खेचराः प्रददुश्चारु-महोत्सवपुरस्सरम् ॥ १४ ॥ अङ्गीचक्रेऽथ भरतो भद्रां कनकभूपजाम् । शत्रुघ्नाय ददौ कन्यां पुत्री नन्दाभिधां खग ॥१४१ ।। वस्त्रादिदानतः सर्वान् भूपान् सन्मान्य मोदतः । स्वं स्वं पुरं प्रति क्षमापो जनकोऽचालयत् क्रमात् ॥ १४२ ॥ अश्वादिदानतो भूमी-भुजा दशरथो नृपः । सन्मानितश्चतुःपुत्र-युतः स्वपुरमीयिवान् ॥१४३॥ RecSScSDECIRSTESSES ३२६॥ For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy