________________
Shri Mahavir Jain Aradhana Kendra
शत्रुञ्जय कल्पवृ०
॥ ३२२ ॥
5252525252525252525
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शत्रुञ्जयेऽजयो राजा स्फारं सर्वज्ञमन्दिरम् । कारथित्वाऽऽदिदेवस्य प्रतिकां तु न्क्वीविशत् ॥ ८९ ॥ क्रमात् स्वराज्यमासाद्य कुर्वन् धम्मं जिनोदितम् । पूजां श्रीवृषभेशस्य चकार प्रतिवासरम् ॥ ९० ॥ प्रान्तेऽजयनृपोऽनन्त- रथं स्वं नन्दनं वरम् । स्वपट्टे न्यस्य जग्राह संयमं गुरुसन्निधौ ॥ ९१ ॥ अनन्तरथभूपस्य पुत्रो दशरथाभिधः । बभूव विक्रमाssक्रान्त वैरिवर्गो महाभुजः ॥ ९२ ॥ अन्यदा संसदि क्ष्मापे निविष्टे नारदो मुनिः । आगतो भूभुजा पृष्टो वार्तां विनयपूर्वकम् ॥ ९३ ॥ कुत आगास्त्वं किं दृष्टं ? ततो नारद ऊचिवान् । महाविदेहमध्येऽस्ति नगरी पुण्डरीकिणी ॥ ९४ ॥ तत्र सीमन्धरस्तीर्थ-करोऽलात् संयमश्रियम् । महोत्सवो महान् दृष्टः क्रियमाणः सुरेश्वरैः ॥ ९५ ॥ यतः-" अह अन्नया कयाइ सहाए मज्झम्मि दसरहो राया । चिट्ठइ सुखासणत्थो तावत्तिअ नारओ पत्तो ॥ १ ॥ अडिओ य सहसा नरवइणा आसणे पुह निसन्नो । परिपुच्छिओ य भयवं कुतोऽसि तुमं परिभमीओ १ ॥२॥ दाऊणं आसीसं भणइ तओ नारओ जिणहराणं । वंदणनिमित्तहेउ पुब्वविदेहे गओ अहयं ॥ ३ ॥ अहं पुंडरीगिणीए सीमंधर जिणवरनिक्खमणं दिहं । मए महायस ! सुर-असुर- समाउलं तत्थ ॥ ४ ॥ सीमंधरं भगवंतं नमिऊण चेइयाई तत्थ पुणो । मंदरगिरिं गओऽहं पणमामि जिणालये उड्ढे ॥ ५ ॥ " केचिदाहु:-" एवं इक्खागकुले समइकंतेसु नरवरिंदेसु । साएयपुरवरीए अणरणो पत्थिवो जाओ ॥ १ ॥
For Private and Personal Use Only
525525T
॥ ३२२ ॥