SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शत्रुज्जय कल्पवृ० ॥ ३१७ ॥ 252522525255252525255 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आसु अन्नासु अ विहीसु दसमाइ पक्खमासेसु । बेमासिअ तिमासिअ खवेइ छम्मास जोएसु ॥ ५ ॥ " एवं तपः परौ पुत्र - पितरौ विपुले बने । गच्छन्तौ निजकर्माणि क्षिपतः - स्मपुरार्जितम् ॥ २६ ॥ इतो मृत्वाssर्त्तितो राज्ञी सहदेवी दुराशया । तत्रैव कानने व्याघ्री वभूव क्रूरमानसा ॥ २७ ॥ तत्र मेघागमे कृत्वा चतुर्मासीं च पारणे । गच्छन्तोऽतो पुरीं व्याघ्रथा दृष्टः क्रूरतराशया ॥ २८ ॥ व्याघ्री सुकोसलं चादा वाहत्या पातयद् भुवि । विदार्य खादितुं लग्ना मांसं च तस्य निर्दयम् ॥ २९ ॥ कल्याणखचितान् दन्तान् दृष्ट्वा व्याघ्री व्यचिन्तयत् । किमेतद् वदनं पूर्वं मया दृष्टं चिरं स्फुटम् ॥ ३० ॥ तदा तयेक्षितः पूर्व-भवो जातिस्मृतेद्रुतम् । यावत् सा व्यरमद् व्याघ्री तावत् सद्ध्यानमाश्रिता ॥ ३१ ॥ सुकोसलस्याभवज्ज्ञानं केवलं च शिवं पुनः । कृते ज्ञानोत्सवे कीर्ति धरस्यापि च विद्वरा ॥ ३२ ॥ सा व्याघ्री स्वं कृतं कर्म निन्दति ज्ञानिसाक्षिकम् । गृहीतानशना स्वर्ग लोके समगमत्तदा ॥ ३३ ॥ देवा ज्ञानोत्सवं कृत्वा तयोर्यत्योस्तदाssदरात् । जग्मुः सुरालये लान्तो गुणांचारित्रिणोस्तदा ॥ ३४ ॥ सुकोसलस्य पट्टेऽभूद् हिरण्यगर्भभूपतिः । तस्य पट्टेऽभवद् वर्यो नघुषो मेदिनीपतिः ॥ ३५ ॥ घुषे शात्रवान् जेतुं गते पूर्वदिशि स्फुटम् । आगतं वैरिणश्चक्रं जिगाय सिंहका प्रिया ॥ ३६ ॥ पश्चाद् भूपः समायातो राजा ज्ञात्वा प्रियाबलम् । दूनोऽजनि निजे चित्ते शीलभङ्गादिहेतुतः ॥ ३७ ॥ For Private and Personal Use Only 255252525225757552525525 ॥३१७॥
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy