SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शत्रुजय कल्पवृ ॥३०२॥ LESASSISESSES * तीक्ष्यसूचीमुखाक्रान्ति-भागेऽनन्ताः शरीरिणः । उत्पधन्ते विलीयन्ते यत्र तेऽन्तकायिनः ॥८६॥ * उदुम्बरवटप्लक्ष-काकोदम्बरशाखिनाम् । अश्वत्थस्यापि न फल-मश्नीयात् कृमिसकुलम् ॥ ८७ ॥॥ * त्याज्या महाविकृतय-श्रतखोइनन्तदोषाः । मद्यं मांसं नवनीतं मधु त्याज्यान्यमूनि हि ॥ ८८॥5 * हिमं विषं च करकान् सर्वमज्ञातकं फलम् । रजनीभोजनानन्त-कायान् सन्धानकांस्तथा ॥ ८९ ॥5 * वृन्ताकमूलकांश्चापि निखिलं पुष्पितौदनम् । बहुबीजामगोरस-सम्पृक्तद्विदलं त्यजेत् ॥९॥ युग्मम् । इत्यादिसूपदेशेन प्रबोध्य ते तपस्विनः । मिथ्यात्वं त्याजिता चक्र-धरेण मेदिनीभुजा ॥९॥ जगौ चक्रधरो भो भो ! तापसाः सिद्धपर्वते । गत्वा प्रणमताऽऽदीशं जिनं कल्याणहेतवे ॥९२ ।। ततश्चक्रधरेणाऽमा तापसा हृष्टमानसाः । नन्तुं शत्रञ्जये तीर्थे चेलुः श्रीवृषभं जिनम् ॥९३ ॥ भूरिभार्या-बहुव्योम-गामितापससंयुतम् । आयान्तं शान्तितीर्थेशपुत्रं चक्रधरं नृपम् ॥ ९४ ॥ दृष्ट्वा सङ्घजनो हृष्टः सन्मुखं समुपागमत् । ततश्चक्रधरः सङ्घ सन्मानयति भक्तितः ॥ ९५ ॥ । नृपश्चक्रधरश्वारू-त्सवं दानं ददन् बहु । सङ्घमध्ये समायातोऽर्चयच्छीनाभिनन्दनम् ॥ ९६ ।। तापसास्तेऽपि सावद्या-हारं त्यक्त्वा जिनोदितम् । शुद्धमन्नं प्रगृह्णन्तो धर्म कुर्वन्ति सादरम् ॥ ९७ ॥ देवपूजां सङ्घपूजा कृत्वा तत्र महीधवः । तीर्थे शत्रुञ्जये शीघ्र-मारुरोह कृतोत्सवम् ॥ ९८ ॥ SESEITSESTISTES ॥३०२ For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy